दशमोत्तरछात्रवृत्त्याः आदिवासी–योजनान्तर्गतं १६.६५ कोट्यः निर्गताः, आर्थिकतङ्केन कोऽपि आदिवासीछात्रः शिक्षायाः वञ्चितः न भविष्यति – जावेदः राणा
श्रीनगरम्, 24 अक्तुबरमासः (हि.स.)। जम्मूकश्मीरसर्वकारेण वित्तवर्षे २०२५–२६ इत्यस्मिन् दशमोत्तरछात्रवृत्ति (आदिवासीयोजना) इत्यस्य अन्तर्गतं १६.६५ कोटिरूप्यकाणां धनराशिः अनुमोदिता निर्गता च। अस्मिन् आवंटने भारतीयसर्वकारस्य जनजातिकार्यमन्त्रालयेन केन्
16.65 crore released under the Post Matric Scholarship Tribal Scheme,


श्रीनगरम्, 24 अक्तुबरमासः (हि.स.)। जम्मूकश्मीरसर्वकारेण वित्तवर्षे २०२५–२६ इत्यस्मिन् दशमोत्तरछात्रवृत्ति (आदिवासीयोजना) इत्यस्य अन्तर्गतं १६.६५ कोटिरूप्यकाणां धनराशिः अनुमोदिता निर्गता च। अस्मिन् आवंटने भारतीयसर्वकारस्य जनजातिकार्यमन्त्रालयेन केन्द्रप्रायोजितयोजनायाः अन्तर्गतं १४.९९ कोटिरूप्यकाणां केन्द्रीय–अंशः तथा केन्द्रशासितप्रदेशस्य अंशरूपेण १.६६ कोटिरूप्यकाणां भागः समाविष्टः अस्ति।

एषा धनराशिः लाभार्थिभ्यः पारदर्शकं, कुशलं, समयोचितं च हस्तान्तरणं सुनिश्चितुं एस्.एन्.ए. “स्पर्श” इत्याख्य–मञ्चेन निर्गता। एतद् शिक्षामार्गेण आदिवासीयुवानां सशक्तिकरणं कर्तुम् उच्चशिक्षायाम् आर्थिकबाधानां न्यूनीकरणं च साधयितुम् ओमार् अब्दुल्ला–सर्वकारस्य दृढप्रतिबद्धतां दर्शयति।

जनजातिकार्यमन्त्री जावेदः अहमदः राणा इत्यनेन विज्ञापने प्रकाशयता उक्तम् यत् “एतत् वर्धित–आवंटनं सर्वकारस्य तस्मिन् संकल्पे दृढतां ददाति, यत् आदिवासीयुवानः उच्चशिक्षा, व्यावसायिकप्रशिक्षणं, कौशलविकास–अवसरांश्च लभमाना मुख्यधारायां समाविष्टाः स्युः।

अस्माकं ध्यानं केवलं धनस्य आवंटने न, किन्तु एतत् सुनिश्चितुं यत् प्रत्येकं पात्रं छात्रः प्रक्रियात्मक–विलम्बेन विना समयेन एव छात्रवृत्तिं लभेत्। सर्वेषां सम्बद्ध–अधिकाऱिणां प्रति ‘स्पर्श’–मञ्चेन सत्यापनं, प्रसंस्करणं, प्रत्यक्षलाभहस्तान्तरणं च शीघ्रतया करणीयमिति स्पष्टनिर्देशाः दत्ताः।”

मन्त्रिणा जनजातिजनकल्याणयोजनानां कार्यान्वयने निरन्तरसमर्थनं सहयोगं च प्रदत्तं भारतीयसर्वकारस्य जनजातिकार्यमन्त्रालयं प्रति कृतज्ञता अपि व्यक्ता।

हिन्दुस्थान समाचार / अंशु गुप्ता