Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 24 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा इत्यनेन राज्यस्य युवकेभ्यः वैश्विकस्तरे रोजगारसन्दर्भे अवसरान् प्रदातुं “सीएम-फ्लाइट्” इति नाम्ना कार्यक्रमस्य आरम्भस्य घोषणा कृता।
मुख्यमन्त्रिणा उक्तं यत् अस्य कार्यक्रमस्य अन्तर्गते युवकेभ्यः विविधासु विदेशभाषासु कौशलच प्रशिक्षणं दास्यते, येन ते विश्वस्तरे रोजगारसन्धीनां प्राप्त्यर्थं सज्जाः स्युः।
अस्मिन् कार्यक्रमे प्रारम्भे जापनीभाषायाः एकः पायलट्-प्रोजेक्ट् आरब्धः अस्ति। मुख्यमन्त्रिणा अपि उक्तं यत् युवानां प्रशिक्षणार्थं तान् विदेशेषु रोजगारलाभाय च पूर्णा समर्थनव्यवस्था निर्मीयते, येन असमस्य युवावर्गः अन्ताराष्ट्रियस्तरे स्वस्य विशिष्टां परिचयं स्थापयितुं शक्नोति।
हिन्दुस्थान समाचार