काशी हिन्दू विश्वविद्यालयतो डॉ. योगेश कुमार यादवस्य चयनं विश्वस्य सर्वास्मात् महत्यां सबमिलीमीटर टेलीस्कोप परियोजनायाम्
वाराणसी,24 अक्टूबरमासः (हि.स.)।काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) भौतिकीविभागात् अद्यतनकाले पीएचडी-अध्ययनं सम्पन्नवन्तः मेधावी डॉ॰ योगेशकुमारयादवः नामकः छात्रः विश्वस्य महान्तमस्य अटाकामा लार्ज् अपर्चर सबमिलीमीटर टेलिस्कोप् (एटलास्ट्–२) इति परियोज
डॉ. योगेश कुमार यादव


वाराणसी,24 अक्टूबरमासः (हि.स.)।काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) भौतिकीविभागात् अद्यतनकाले पीएचडी-अध्ययनं सम्पन्नवन्तः मेधावी डॉ॰ योगेशकुमारयादवः नामकः छात्रः विश्वस्य महान्तमस्य अटाकामा लार्ज् अपर्चर सबमिलीमीटर टेलिस्कोप् (एटलास्ट्–२) इति परियोजनायाम् चयनं प्राप्तवान्।

एषा अत्याधुनिकदूरदर्शिनी चिलीदेशस्य अटाकामामरुभूमौ स्थाप्यते, यत्र हाइड्रोजन-ऊर्जया तस्याः सञ्चालनं कर्तुं अनुसन्धानं प्रवर्तते। अस्मिन् महत्त्वाकाङ्क्षिणि अन्तरराष्ट्रीये प्रकल्पे यूरोपदेशस्य चतुर्दश प्रमुखानां अनुसन्धानसंस्थापनां सहभागः अस्ति। एतद्विषये विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन सूचना प्रदत्ता।

तत्रोक्तं यत् डॉ॰ योगेशः अस्मिन् प्रकल्पे हाइड्रोजन-ऊर्जानिर्भरस्य सञ्चालनतन्त्रस्य विकासकार्ये संलग्नः भविष्यति। अस्य परिणामस्वरूपेण खगोलविज्ञानस्य च स्वच्छऊर्जाक्षेत्रस्य च उभयोः क्षेत्रयोः क्रान्तिकारिणी प्रगति सम्भविष्यति।

वर्तमानकाले डॉ॰ योगेशः नॉर्वेदेशस्य ओस्लो-विश्वविद्यालये प्रारम्भिकं प्रशिक्षणं प्राप्नोति। प्रशिक्षणसमाप्तेः अनन्तरं सः चिलीदेशस्य अटाकामाक्षेत्रे स्वकार्यं अग्रे नेतुं गमिष्यति।

अस्य अनुसन्धानार्थं डॉ॰ योगेशाय ४५०० यूरो (प्रायः ₹४.५७ लक्षाणि) मूल्ये फेलोशिप् प्रदानिता। अस्य तस्य चयनं केवलं भारतस्य न, किन्तु काशीहिन्दुविश्वविद्यालयस्य अपि गौरवस्य विषयः अस्ति।

उक्तं च यत् डॉ॰ योगेशेन हाइड्रोजन-ऊर्जाविषये स्वं शोधकार्यं बीएचयूभौतिकीविभागे सम्पन्नं कृतम्। तस्य अनुसंधाननिर्देशकौ प्रोफेसर् एम्॰ अबुशाज तथा प्रोफेसर् टी॰ पी॰ यादव इत्येतौ स्तः। डॉ॰ योगेशः पद्मश्रीस्वर्गीयः प्रोफेसर् ओ॰ एन॰ श्रीवास्तवस्य प्रयोगशालायां कार्यं कृतवान्, यः हाइड्रोजन-ऊर्जानुसन्धानक्षेत्रे अग्रणी आसीत्। प्रोफेसरः श्रीवास्तवः एव प्रोफेसरयोः अबुशाज–यादवयोः गुरु आसीत्, तेन प्रदत्तं मार्गदर्शनं प्रेरणां च अद्यापि विभागे अनुसन्धानाय नूतनदिशां प्रदत्तवती अस्ति।

बीएचयू–परिवारः डॉ॰ योगेशकुमारयादवम् अस्य अन्तरराष्ट्रीयस्य उपलब्धेः योगदानस्य च निमित्तं हार्दिकं अभिनन्दनं कृतवान्।

---------------

हिन्दुस्थान समाचार