केंद्रीय ग्रामीण विकास राज्यमंत्री कमलेश पासवानो दीपं प्रज्ज्वाल्य जीविकामेलाकार्यक्रमं शुभारभत
वाराणसी, 24 अक्टूबरमासः (हि. स.)।वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालयस्य कृषिप्रेक्षागृहे शुक्रवारदिने “मिशनरोजगार” कार्यक्रमान्तर्गतं नियुक्तिपत्रवितरण–समारोहम्‌ स्थानीयरूपेण आयोजितम्। अस्य कार्यक्रमस्य शुभारम्भः केन्द्रीयग्रामीणविकासराज्यमन्
वाराणसी में आयोजित कार्यक्रम का शुभारंभ करते केंद्रीय मंत्री कमलेश पासवान


वाराणसी, 24 अक्टूबरमासः (हि. स.)।वाराणस्यां स्थिते काशीहिन्दुविश्वविद्यालयस्य कृषिप्रेक्षागृहे शुक्रवारदिने “मिशनरोजगार” कार्यक्रमान्तर्गतं नियुक्तिपत्रवितरण–समारोहम्‌ स्थानीयरूपेण आयोजितम्। अस्य कार्यक्रमस्य शुभारम्भः केन्द्रीयग्रामीणविकासराज्यमन्त्री कमलेशपास्वानेन दीपप्रज्ज्वलनपूर्वकं कृतः।

अस्मिन् कार्यक्रमे प्रधानमन्त्रिणा नरेन्द्रमोदिना विडियोसंवादमार्गेण एकपञ्चाशत्सहस्राधिकेभ्यः अभ्यर्थिभ्यः नियुक्तिपत्राणि वितरितानि। उपस्थिताः सर्वे जनाः प्रधानमन्त्रिणः नरेन्द्रमोदिनः उद्बोधनं सावधानतया श्रुतवन्तः।

अस्मिन् अवसरे काशीहिन्दुविश्वविद्यालयस्य कुलपतिः अजितकुमारचतुर्वेदी, ग्रामीणविकासविभागस्य अधिकारीणः, विश्वविद्यालयस्य आचार्यगणश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार