Enter your Email Address to subscribe to our newsletters

शिमला, 24 अक्तुबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य संदर्भे राजनीतिक- कोलाहलः तीव्र: जात:। जीविकोपार्जनवृत्तिसभायां हिमाचलप्रदेशस्य राजधानी– शिमला आगता केन्द्रीयराज्यमन्त्री बी.एल. वर्मा इत्यनेन शुक्रवासरे पत्रकारैः अनौपचारिकसंवादे उक्तम् —
“प्रधानमन्त्री नरेन्द्रमोदी एव एनडीए संघटनस्य मुख्यमुखम् अस्ति, तथा बिहारमध्ये एनडीए–गठबंधनः बहुमतेन सर्वकारं स्थापयिष्यति। विपक्षी–‘इंडीयागठबंधनः’ पूर्वारम्भात् अपरस्मिन् संघर्षं कुर्वन्ति, प्रवेशपत्रवितरणस्य विषये अपि तत्र गम्भीरसंघर्षः दृश्यते।
बी.एल. वर्मा इत्यनेन उक्तम् यत् एनडीए–संघटनं प्रति जनता पूर्णसमर्थनं ददाति। बिहारनिर्वाचनमध्ये मुख्यमंत्री–मुख्यस्य विषये दलः पूर्वमेव संकेतं दत्तवान्, यथोचितसमये औपचारिकनिर्णयः कर्तव्यः। जनता मोदीसर्वकारस्य योजनाभ्यः कर्मभ्यश्च पूर्णसंतुष्टास्ति, अतः बिहारमध्ये एनडीए–संघटनं स्पष्टबहुमतं प्राप्स्यति।
महागठबंधनं प्रति लक्ष्यम् अर्पयन्, तेन उक्तम् यत् विपक्षस्य स्थिति: अत्यन्तं दुर्बला अस्ति। तेषां नेतारः स्वतालमेलं स्थापयितुं न शक्नुवन्ति, जनता च एतत् सर्वं पश्यति। यः दलः स्वस्मिन् एकतां न धत्ते, सः कथं बिहारराज्यस्य नेतृत्वं सम्यक् कर्तुं शक्नोति?
अस्मिन् अवसररे केन्द्रीय–सर्वकारस्य जनकल्याणकारीयोजनानाम् अपि स्मरणं कृतम्। तेन उक्तम् यत् प्रधानमन्त्री नरेन्द्रमोदेः नेतृत्वे केन्द्रसर्वकार: ८० कोटि जनानां कृते निःशुल्क–अन्नं प्रदत्तवान् अस्ति। ‘वननेशन, वनराशनकार्ड्’ योजनया देशस्य कोऽपि निर्धनः व्यक्तिः कुत्रापि राशनं प्राप्नोति। अस्यां योजनायाम् केवलं पारदर्शिता न, अपितु गुणवत्तायाम् अपि विशेषसतर्कता प्रदत्तवान् अस्ति।
बी.एल. वर्मा इत्यनेन विश्वासं व्यक्तम् यत् मोदीसर्वकारस्य योजनाभ्यः जनतायाः विश्वासः दृढः जातः। एषः विश्वासः बिहारनिर्वाचनमध्ये एनडीए–विजयस्य आधार: भविष्यति।
---
हिन्दुस्थान समाचार / अंशु गुप्ता