दिग्गजस्य विज्ञापनगुरु-पीयूषपांडे इत्यस्य निधनम्
नवदेहली, 24 अक्टूबरमासः (हि.स.)। प्रसिद्धः विज्ञापन–विशारदः पीयूषः पाण्डेयः शुक्रवारस्य दिने सप्ततिवर्षीयवयसा मुंबईनगरमध्ये दिवं गतः। सुहेलः सेठः स्वस्य एक्स् पटले तस्य निधनस्य सूचना प्राकाशयत्। भारतीयविज्ञापनक्षेत्रस्य स्वरूपं परिवर्तितवन्तः पीयूष
पीयूष पांडे (फाइल फोटो)


नवदेहली, 24 अक्टूबरमासः (हि.स.)। प्रसिद्धः विज्ञापन–विशारदः पीयूषः पाण्डेयः शुक्रवारस्य दिने सप्ततिवर्षीयवयसा मुंबईनगरमध्ये दिवं गतः। सुहेलः सेठः स्वस्य एक्स् पटले तस्य निधनस्य सूचना प्राकाशयत्। भारतीयविज्ञापनक्षेत्रस्य स्वरूपं परिवर्तितवन्तः पीयूषः पाण्डेयः “मिले सुर मेरा तुम्हारा” इति गीतसहितं भारतीयजनतादलस्य कृते स्मरणीयं नारा निर्मितवन्तः — “अबकी बार मोदी सरकार” तथा “अच्छे दिन आने वाले हैं” इति।

सुहेलः सेठः स्व–एक्स्–पटले शोकं व्यक्त्वा लिखितवान् — “सर्वेषां मध्ये अतिप्रियः मित्रं पीयूषः पाण्डेयः इति प्रतिभाशालीपुरुषस्य निधनात् अत्यन्तं दुःखितः अस्मि, स्तब्धश्च। भारतदेशेन केवलं विज्ञापनक्षेत्रस्य महत्स्वरूपं न हृतम्, अपितु एकः सच्चः देशभक्तः, उत्तमः सज्जनः च नष्टः।”

पीयूषस्य पाण्डेयस्य जन्म 1955 तमे वर्षे जयपुरे अभवत्। तस्य परिवारस्य मध्ये नव संततयः आसन् — सप्त कन्याः, द्वौ च पुत्रौ। तस्य भ्रातृभगिनीनां मध्ये चलचित्रनिर्देशकः प्रसूनः पाण्डेयः, गायिका–अभिनेत्री च इला अरुण् नाम्नी प्रसिद्धे स्तः।

सः 1982 तमे वर्षे ओगिल्वी नामकसंस्थायाम् सम्मिलितः। सप्तविंशतिवर्षीयवयसा विज्ञापनक्षेत्रे प्रविष्टः। एशियन पेन्ट्स् (“हर खुशी में रंग लाए”), कैडबरी (“कुछ खास है”), फेविकोल् तथा हच् इत्यादिषु ब्राण्डेषु स्वस्वरेण विज्ञापनानां जगति अद्वितीयं उदाहरणं स्थापयत्।

----

हिन्दुस्थान समाचार / अंशु गुप्ता