Enter your Email Address to subscribe to our newsletters

शिमला, 24 अक्तुबरमासः (हि.स.)। देशे सर्वत्र शुक्रवासरे डाकविभागस्य आयोजने १७–तमं जीविकोपार्जनसभा आयोजिता। अस्यां सभायाम् ४० स्थानेषु एकस्मिन् काले नियुक्तिपत्रवितरणकार्यक्रमः आयोजितः। अस्मिन अवसरे प्रधानमंत्रीनरेन्द्रमोदी इत्यनेन वर्चुअलमाध्यमेन देशस्य ५१ सहस्रनवनियुक्त युवकेभ्यः सम्बोधनं कृत्वा तेषां नव–कर्तव्यानां कृते शुभकामनाः प्रदत्ताः।
हिमाचलप्रदेशस्य राजधानीशिमलायाम् अस्य कार्यक्रमस्य आयोजनम् भारतीय–आलू–अनुसन्धान–संस्थानस्य (CPRI) सभागृहे कृतम्। कार्यक्रमे उपभोक्ताप्रकरणं, खाद्य–च सार्वजनिकवितरणमन्त्रालयः, तथा सामाजिकन्यायस्य च अधिकारिता केन्द्रीयराज्यमन्त्री बी.एल. वर्मा मुख्य अतिथेः रूपेण उपस्थितः। ते चयनितयुवकेभ्यः नियुक्तिपत्राणि प्रदत्तवन्तः तथा तेषां उज्ज्वलभविष्याय शुभकामनां व्यक्तावन्तः।
शिमलायाम् ९३–नवनियुक्तयुवकेभ्यः विविधकेन्द्रीयविभागेषु सेवायाः कृते नियुक्तिपत्राणि प्रदत्तानि। तेषु डाकविभागः, गृहमन्त्रालयः, रेलवे, वित्तीयसेवाः, केंद्रीय वस्तुसेवाकरविभागः, उच्चशिक्षाविभागः, तथा पर्यावरण, वनविभाग: जलवायुपरिवर्तनमन्त्रालयश्च सम्मिलिताः।
अस्मिन अवसरे केन्द्रीयमन्त्री बी.एल. वर्मा इत्यनेन उक्तम् यत् प्रधानमन्त्री नरेन्द्रमोदेः नेतृत्वे केन्द्रसर्वकार: युवाजनानां जीविकोपार्जनसुविधायाः कृते निरन्तरं प्रयत्नशीलास्ति। जीविकोपार्जनसभानां माध्यमेन अद्य पर्यन्तं ११ लक्षात्यधिकयुवकेभ्यः केन्द्रसर्वकारस्य विभागेषु नियुक्तयः प्रदत्ताः। विकसितभारतस्य निर्माणे युवकानां भूमिकां अतीव महत्वपूर्णं, तथा केन्द्रसर्वकार: तेषां सक्रियभागीदारीं सुनिश्चितं करोति।
मन्त्री युवकेभ्यः याचनां कृतवान् यत् सर्वदा निष्ठा, ईमानदारी, च सेवाभावेन राष्ट्रजनस्य सेवां कुरुत।
युवकाः ये नियुक्तिपत्रं प्राप्तवन्तः, ते केन्द्रसर्वकारं प्रति कृतज्ञतां व्यक्तवन्तः, तथा उक्तवन्तः यत् अस्माकं कर्तव्यं पूर्णलग्नतासहितं सम्पाद्यताम्। एषा नियुक्तिः अस्माकं पारिवारिक–आर्थिकस्थिति: सम्यक् कर्तुम् अवसरं ददाति, समाजकल्याणाय च कर्मकृते अवसरं प्रदत्तम्।
---
हिन्दुस्थान समाचार / अंशु गुप्ता