‘तिलक द्वारं’ संजातं प्रभु श्रीरामस्य दिव्य आगमनस्य प्रतीकम्
काशी हिन्दू विश्वविद्यालयस्य कलात्मक प्रतिभया साकारीभूतम् अयोध्यायाः नवगौरवम् वाराणसी, 24 अक्टूबरमासः (हि.स.)।काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) सृजनात्मकोत्कृष्टता अधुना अयोध्यायाः पावनभूमौ “तिलकद्वार” इत्यस्य अद्भुतरूपेण प्रतिष्ठिता अस्ति। एषः
अयोध्या में बीएचयू की रचनात्मक उत्कृष्टता की आभा ‘तिलक द्वार’


अयोध्या में बीएचयू की रचनात्मक उत्कृष्टता की आभा ‘तिलक द्वार’


काशी हिन्दू विश्वविद्यालयस्य कलात्मक प्रतिभया साकारीभूतम् अयोध्यायाः नवगौरवम्

वाराणसी, 24 अक्टूबरमासः (हि.स.)।काशीहिन्दुविश्वविद्यालयस्य (बीएचयू) सृजनात्मकोत्कृष्टता अधुना अयोध्यायाः पावनभूमौ “तिलकद्वार” इत्यस्य अद्भुतरूपेण प्रतिष्ठिता अस्ति। एषः भव्यः द्वारः भगवान् श्रीरामस्य विजयी–दिव्यागमनस्य प्रतीकः भूत्वा सम्पूर्णां नगरीं प्रकाशयति।

अस्य अद्वितीयस्य सृजनस्य परिकल्पनां डिज़ाइनं च बीएचयू–विश्वविद्यालयस्य दृश्यकला–संकायस्य अप्लाइड् आर्ट् विभागाध्यक्षः प्रोफेसर् मनीष अरोडाः वरिष्ठशोधार्थी राहुलकुमारशॉ च कृतवन्तौ। एषः विशालः द्वारः अयोध्यायाः हनुमानगुफामार्गे, चतुर्दश–कोसी–परिक्रमामार्गस्य समीपे प्रतिष्ठापितः अस्ति। उभयोः कलाकारयोः एषा सृजनात्मकसिद्धिः सामाजिकमाध्यमेषु अपि व्यापकं प्रशंसां प्राप्तवती।

विश्वविद्यालयस्य जनसम्पर्ककार्यालयस्य अनुसारं, अस्य अनूठस्य विचारस्य उत्पत्तिः २०२४ तमे वर्षे अभवत्, यदा बीएचयू–विश्वविद्यालयस्य एब्सट्रैक्ट आर्ट्–दलम् एका वैश्विकडिज़ाइन–प्रतियोगितायां प्रथमस्थानं प्राप्तवान्। तस्मिन् काले अयोध्याविकास–प्राधिकरणेन राममन्दिरस्य मुख्यद्वाराय डिज़ाइनान् आमन्त्रितवन्तः। तदा बीएचयू–दलम् दीपोत्सवस्य भावच्छटां मूर्तरूपेण प्रकटयितुं दिशि कार्यं आरब्धवन्तः।

आदौ अस्य नाम “दीपद्वार” इति निर्दिष्टम्, परं चयनसमित्याः निर्णयेन तस्मै “तिलकद्वार” इति नाम प्रदत्तम् — यः श्रीरामस्य मस्तके अंकितस्य तस्य पवित्रतिलकस्य प्रेरणया जातः, यः धर्मस्य विजयस्य च मर्यादायाः प्रतीकः अस्ति।

द्वारस्य कलात्मकसंरचना अतीव प्रतीकात्मिका अस्ति — तस्य शीर्षे स्थितानि त्रयः आलोकितस्तराः भारतस्य अतीतं, वर्तमानं, भविष्यं च प्रतिनिध्यन्ति। तेषां सर्वेषां उपरि उदितः सूर्यः सत्यम् असत्यस्य च शाश्वतविजयस्य प्रतीकः अस्ति — स एव तेजः प्रकाशः यः रघुवंशपरम्परायाः उत्पन्नः भूत्वा सम्पूर्णां सृष्टिं आलोकयति।

द्वारस्य स्तम्भेषु अंकिताः शङ्खः, चक्रः, गदा, पद्मं च भगवान् विष्णोः प्रतीकाः सन्ति, ये स्मारयन्ति यत् श्रीरामः विष्णोः सप्तमावतारः — करुणा–धर्म–न्यायानां सजीवरूपः। मध्यभागे अंकितं पवित्रं लेखनं “रामनाम” इत्येतत् सार्वभौमिकं सन्देशं ददाति — “रामः सर्वेषां अस्ति, सर्वे च रामस्य एव” इति।

भगवान् महादेवाय, महामनाय पण्डितमदनमोहनमालवीयाय, तथा प्रभवे श्रीरामाय समर्पितं एतत् भव्यं सृजनं केवलं बीएचयू–विश्वविद्यालयस्य सृजनात्मकप्रतिभायाः आध्यात्मिककलात्मकतायाः च प्रतीकं न, अपितु भारतस्य सांस्कृतिकवारसस्य अपि तेजस्वीमालोकमयप्रतिभा भूत्वा अयोध्यायां प्रस्फुरति।

---------------

हिन्दुस्थान समाचार