Enter your Email Address to subscribe to our newsletters

सहरसा, 24 अक्तुबरमासः (हि.स.)। ब्रजकिशोरज्योतिषसंस्थानस्य संस्थापकः प्रसिद्धज्योतिषाचार्यः पण्डितः तरुणः झा इत्यनेन उक्तं यत् षष्ठीमहापर्वणः (छठपूजायाः) लोकप्रियता अधुना देशे विदेशे च दृश्यते। षष्ठीपूजा कठिनव्रतपरम्परासु एकः प्रमुखः व्रतः अस्ति। अस्मिन् चतुर्षु दिनेषु व्रतानां नियमाः निष्ठया पालनीयाः भवन्ति, व्रती च षट्त्रिंशतहोरानां निर्जलव्रतम् आचरति।
षष्ठीपूजायाम् “नहायखाय”, “खरना”, “अस्ताचलगामि–अर्घ्यः” तथा “उषा–अर्घ्यः” इत्येतयोः विशेषं महत्त्वं भवति।
मिथिलाविश्वविद्यालयपञ्चाङ्गस्य अनुसारम् —
प्रथमदिवसः “नहाय–खाय” २५ अक्तुबरे,
द्वितीयः “खरना” २६ अक्तुबरे,
तृतीयः “अस्ताचलगामिने सूर्याय अर्घ्यदानम्” २७ अक्तुबरे,
चतुर्थः च “उदीयमानसूर्याय अर्घ्यदानम्” २८ अक्तुबरे भविष्यति इति निर्दिष्टम्।
एतद् षष्ठीपर्व मूलतः सूर्य–आराधनायाः पर्व अस्ति, यस्मिन् हिन्दूधर्मे विशेषं स्थानं विद्यते। हिन्दूनां देवेषु सूर्यदेव एव तादृशः देवः अस्ति, यस्य मूर्तिरूपं प्रत्यक्षं दृष्टुं शक्यते।
प्रातःकाले भगवानं सूर्यं सायंकाले च पुनः अर्घ्यं दत्त्वा नमस्कृत्य याचनानां पूर्त्यर्थं प्रार्थना क्रियते। सूर्यदेवः च षष्ठीमाता च सर्वेषां भक्तानां मनोकामनाः पूरयतः इति विश्वासः आस्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता