Enter your Email Address to subscribe to our newsletters

वाशिंगटनम्, २४ अक्टूबरमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्पः टैरिफ् (शुल्क)-विषये कनाडादेशे प्रसारितस्य नकारात्मकदूरदर्शनविज्ञापनस्य प्रति तीव्रम् असन्तोषं व्यक्त्वा, कनाडादेशेन सह अधुना काचित् अपि व्यापारवार्ता न करिष्यते इति घोषणां कृतवान्।
एबीसी-न्यूज् इत्यस्य विवरणानुसारं, ट्रम्पः स्वस्य सोशल्-ट्रुथ् इत्यस्मिन् माध्यमे लिखितम्—
“अमेरिकायाः राष्ट्रीयसुरक्षायै अर्थव्यवस्थायै च शुल्कम् अत्यन्तं महत्त्वपूर्णम् अस्ति। तेषां (कनाडीयानां) घृणिताचारस्य आधारेण कनाडादेशेन सह सर्वाः व्यापारवार्ताः समाप्ताः इति।”
एषः विज्ञापन-अभियानः अस्य मासस्य आरम्भे एव कनाडादेशस्य ओण्टारियो-प्रान्तात् आरब्धः। तस्मिन् विज्ञापने तत्कालीनराष्ट्रपतिः रोनाल्ड् रीगन् इत्यस्य १९८७ तमवर्षस्य भाषणस्य अंशः श्रुतिरूपेण उपयुक्तः,
यत्र सः जापानी-उत्पन्नेषु कतिपयेषु वस्तुषु शुल्कान् आरोपयन्, दीर्घकालीन-आर्थिकसंकटं तथा व्यापारयुद्धस्य संकटम् अपि सूचितवान्।
रोनाल्ड् रीगन् प्रेसिडेन्शियल् फाउण्डेशन् एण्ड् इन्स्टिट्यूट् इत्यनेन गुरुवासरस्य सायं सामाजिकमाध्यमे प्रदत्ते वक्तव्ये उक्तम्—
कनाडीय-विज्ञापन-अभियाने रीगन इत्यस्य “चयनितश्रव्यदृश्यभागाः” उपयोजिताः,
तथा तेन भाषणे उक्तवाक्यानि “विपरीतरूपेण प्रस्तुतानि” इति।
कनाडीय-विज्ञापन-अभियानस्य उल्लेखं कृत्वा ट्रम्पः उक्तम्—
“तेन एतत् केवलं अमेरिकायाः उच्चतमन्यायालयस्य अन्यन्यन्यायालयानां च निर्णयेषु हस्तक्षेपाय कृतम्।”
उल्लेखनीयम् यत् उच्चतमन्यायालयः शीघ्रमेव निर्धास्यति यत्—
किं ट्रम्पस्य विश्वव्यापकपारस्परिकशुल्क-नीतिः कांग्रेसस्य आपत्कालिकाधिकारस्य अवैधानिकोपयोगः वा?
किं च यावद् संगृह्यन्ते अरब-डॉलर-मूल्याः शुल्काः प्रत्यर्पणीयाः वा इति।
अस्य मासस्य आरम्भे एव कनाडादेशस्य प्रधानमन्त्रिणा मार्क् कार्नी इत्यनेन सह श्वेतगृहे (White House) सम्पन्नायां सभायां ट्रम्पः संभाव्यम् अमेरिका-कनाडा व्यापारसन्धिं विषये आशावादं प्रदर्शयन् उक्तम्—
उभयपक्षौ चर्चायाम् अत्यन्तम् अग्रे गच्छतः इति।
जुलाई-मासे ट्रम्पः इत्यनेन कनाडायाः आगच्छतां बहूनां वस्तूनां अपक्वसामग्रीणां च प्रति पञ्चत्रिंशत्-शतांश-शुल्कं आरोपितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता