वाराणसी: काशी हिन्दूविश्वविद्यालयस्य कुलपतिना सह लेखकाः अमिलन् ,लिखित पुस्तकानि प्रदत्तानि
वाराणसी,24 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणस्यां स्थितस्य काशीहिन्दुविश्वविद्यालयस्य कुलपतिः प्रोफेसरः अजितकुमारचतुर्वेदिनः सन्निधौ ग्रन्थकर्तारः मिलितवन्तः। कुलपतिना सह ते लेखकाः भारतीयकला-शास्त्रयोः विष्णोः स्वरूपाणां तेषां च रूपांक
बीएचयू कुलपति को पुस्तक भेंट करते लेखक


वाराणसी,24 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य वाराणस्यां स्थितस्य काशीहिन्दुविश्वविद्यालयस्य कुलपतिः प्रोफेसरः अजितकुमारचतुर्वेदिनः सन्निधौ ग्रन्थकर्तारः मिलितवन्तः। कुलपतिना सह ते लेखकाः भारतीयकला-शास्त्रयोः विष्णोः स्वरूपाणां तेषां च रूपांकनानां विषये रचितां पुस्तकां समर्प्य विविधानि विषयानि समालोचयामासुः।

कुलपतिना सह साक्षात्कारे सम्पन्ने पुस्तकस्य लेखकौ प्रोफेसरः मारूति-नन्दन-तिवारी तथा डॉ॰ शान्तिस्वरूप-सिन्हा इत्येतौ अवदताम् यत् अस्मिन् ग्रन्थे भगवानः विष्णोः नानाविधानां स्वरूपाणां तात्त्विका विवेचना कृता अस्ति। एवं च शिल्पशास्त्रेषु वर्णितानां विष्णोः स्वरूपाणां, तेषां च भारतवर्षे विद्यमानानां विविधानां मन्दिराणां संग्रहालयानां च अन्तर्गतं शास्त्रीयं विश्लेषणं कृतम्। अद्यतनकाले तेषां मूर्तिस्वरूपाणां उपासनायाः प्रासङ्गिकतां च रेखाङ्कितं कृतम्।

काशी हिन्दू विश्वविद्यालय-कुलपतिः लेखकेभ्यः अभिनन्दनं दत्वा तेषां अनुसन्धानकार्ये निरन्तरता रक्षितव्या इति उक्तवान्। अस्य ग्रन्थस्य अन्यौ सहयोगी-लेखकौ प्रोफेसरः कमलगिरिः तथा पिनाकपाणिप्रसादशर्मा नामकौ अपि तस्मिन् सन्दर्शने उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार