रक्षामन्त्री राजनाथसिंहः लोंगेवालायुद्धस्थले आगतः, शहीदेभ्यः श्रद्धाञ्जलिं दास्यति
जोधपुरम्, 24 अक्टूबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः अद्य राजस्थानराज्यस्य सीमाप्रदेशे स्थितस्य जैसलमेरजनपदस्य भ्रमणे अस्ति। सः तनोट् हेलीपेडतः लोंगेवालायुद्धस्थलस्य दिशि प्रस्थितः अस्ति। लोंगेवालं प्राप्य रक्षामन्त्री शहीदेभ्यः श्रद्धाञ्जलि
jodhpur


जोधपुरम्, 24 अक्टूबरमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः अद्य राजस्थानराज्यस्य सीमाप्रदेशे स्थितस्य जैसलमेरजनपदस्य भ्रमणे अस्ति। सः तनोट् हेलीपेडतः लोंगेवालायुद्धस्थलस्य दिशि प्रस्थितः अस्ति।

लोंगेवालं प्राप्य रक्षामन्त्री शहीदेभ्यः श्रद्धाञ्जलिं दास्यति , सीमायां नियुक्तैः भारतीयसेनायाः सैनिकैः सह संवादं च करिष्यति । तस्मिन् समये सः सीम्नः कार्यसज्जतां परीक्ष्य, वास्तविकसमये सैन्यनियोजनस्य सेनायाः तांत्रिकक्षमतायाः च निरीक्षणं करिष्यति। ततः अनन्तरं रक्षामन्त्री जैसलमेरसेनाकैंट् इत्यस्मिन् स्थले आयोजितायां आर्मी कमाण्डर्स् कॉन्फरेन्स् इत्यस्मिन् सम्मेलने भागं ग्रहिष्यति। अस्मिन् सम्मेलने राष्ट्रस्य रक्षानीतिः, सीमासुरक्षा , सैन्यपरिष्कार विषयेषु विस्तीर्णा चर्चा भविष्यति।

सूचनानुसारं, सम्मेलनमध्ये थलसेनाध्यक्षः जनरल् उपेन्द्रद्विवेदीना सह अन्ये वरिष्ठसेनाधिकारिणः उपस्थिताः भविष्यन्ति। गोष्ठयाम् अग्निवीरयोजना इत्यस्य सम्बन्धिनि विषयेषु अपि चर्चा भविष्यति, यत्र अग्निवीराणां स्थायिनियुक्तिः तथा च भविष्यसैन्यनीतिः मुख्यविषयः भविष्यतः। एषा यात्रा सीमासुरक्षाव्यवस्थां सुदृढीकरणे सेनायाः मनोबलवर्धने च एकं महत्वपूर्णं सोपानं मन्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता