Enter your Email Address to subscribe to our newsletters

-हरियाणादिवसे एकस्मिन् नवम्बरमासस्य दिने आरभ्य कार्यक्रमानां शृङ्खला प्रवर्तिष्यते।
-सर्वकारः चतस्रः धार्मिकयात्राः आयोजष्यिति।
-पञ्चमे नवम्बरदिने मुख्यमन्त्री 1984 तमे वर्षे जातदङ्गपीडितेभ्यः नियोजनपत्राणि दास्यति।
चंडीगढम्, 24 अक्टूबरमासः (हि.स.)। हरियाणासर्वकारेण
श्रीगुरुतेगबहादुरसाहिबमहात्मनः त्रिशतपञ्चाशदुत्तमं (३५०तमं) शहीदीदिवसस्य अवसरं प्रति राज्यव्यापी ऐतिहासिकम् अभूतपूर्वम् च कार्यक्रमश्रृंखलायोजनार्थं घोषितम्। राज्यस्य सूचना-जनसम्पर्क-भाषाविभागेन शुक्रवासरे निर्गतपत्रे निर्दिष्टं यत् नवम्बरमासे हरियाणाराज्यस्य विभिन्नेषु जनपदेषु चतस्रः विशालाः धार्मिकयात्राः प्रवर्तिष्यन्ति, याः राज्यस्य अनेकेषु नगरेषु गत्वा २५ नवम्बरदिने कुरुक्षेत्रे भव्यसमापनसमारोहेन समाप्ताः भविष्यन्ति। एतस्मिन् समारोहे प्रधानमन्त्री नरेन्द्रमोदिनः सहभागस्य औपचारिकपुष्टिः कृता अस्ति। पूर्वमेव १७ अक्टूबरदिने प्रधानमन्त्रिणः सोनिपतागमनस्य कार्यक्रमः निश्चितः आसीत्, यत्र ते मुख्यमन्त्री नायबसैनीसरकारस्य प्रथमवार्षिकोत्सवे सम्मिलिताः भवितुम् अपेक्षिताः आसन्। किन्तु आईपीएस अधिकारी वाय् पूरणकुमारस्य आत्महत्या तथा तदनन्तरं जातसंवेदनशीलपरिस्थितिं दृष्ट्वा सः कार्यक्रमः स्थगितः अभवत्। सूचनाविभागेन सर्वान् उपायुक्तान् प्रति प्रेषितेषु निर्देशेषु उक्तं यत्, एताः यात्राः शान्तेः, त्यागस्य, साम्प्रदायिकसौहार्दस्य च सन्देशं जनसामान्यं प्रति प्रेषयितुं आयोजिताः स्युः।
प्रथमा यात्रा ८ नवम्बरदिने सिरसाजनपदस्य रोडीस्थलात् आरभ्यते, यत्र मुख्यमन्त्री नायबसिंहसैनी झण्डीप्रदर्शनं कृत्वा शुभारम्भं करिष्यन्ति। ततः द्वितीया यात्रा ११ नवम्बरदिने पिण्जौरतः, तृतीया १४ नवम्बरदिने फरीदाबादतः, चतुर्थी १८ नवम्बरदिने कपलमोचनात् (यमुनानगरजनपदात्) आरभ्यते। सर्वाः यात्राः २५ नवम्बरदिने कुरुक्षेत्रे एकत्र समागताः सन्तः ऐतिहासिकसमापनसमारोहं सम्पन्नं करिष्यन्ति।
एषां यात्राणां मार्गेषु बहवः धार्मिकऐतिहासिकस्थानानि समाविष्टानि भविष्यन्ति, यत्र गुरुद्वारसमितयः, स्थानीयप्रशासनम्, संगताः च सहभागित्वं प्रदास्यन्ति। प्रतियात्रायां धार्मिकझाङ्क्याः, शब्दकीर्तनम्, सामाजिकसमरसतासभाः, रात्रिप्रवचनानि च आयोजितानि भविष्यन्ति। राज्यव्यापिप्रक्रमस्य आरम्भः १ नवम्बरदिने “महारक्तदानशिबिर” इत्यस्मात् भविष्यति, यस्य उद्घाटनं मुख्यमन्त्री करिष्यन्ति। सर्वराज्ये ३५० रक्तदानशिबिराणि स्थापितानि भविष्यन्ति। ३ नवम्बरदिने सर्वेषु शासकीय-स्वायत्तविद्यालयेषु गुरुतेगबहादुरसाहिबस्य जीवनविषये निबन्धलेखनस्पर्धा तथा “सुनो कहानी गुरु तेग बहादुर” कार्यक्रमः भविष्यति।
५ नवम्बरदिने मुख्यमन्त्री १९८४ तमे वर्षे जातसिखदङ्गपीडितेभ्यः नियोजनपत्राणि दास्यन्ति।
८ नवम्बरदिने प्रातः ११ वादने सिरसारोडीस्थलात् मुख्यमन्त्री प्रथमयात्रां प्रेषयिष्यन्ति। ९ नवम्बरदिने करनाले प्रातः ६ वादने “हिन्दकीचादर” म्याराथननामकः कार्यक्रमः आयोजितः भविष्यति।द्वितीया यात्रा ११ नवम्बरदिने पिण्जौरतः, तृतीया १४ नवम्बरदिने फरीदाबादतः, चतुर्थी १८ नवम्बरदिने कपलमोचनात् प्रवर्तिष्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता