Enter your Email Address to subscribe to our newsletters

भोपालम्, 25 अक्तुबरमासः (हि.स.)। लोक-आस्थायाः महापर्व छठ अद्य (शनिवासरे) नहायखाय इत्यनेन सह आरभ्यते । मध्यप्रदेशराज्यस्य मुख्यमन्त्री डॉ॰ मोहनयादवः मध्यप्रदेशे वसतां उत्तरभारतीयानां, बिहारीभोजपुरीसमाजस्य च अन्येषां सर्वेषां प्रदेशवासिनां प्रति चतुर्दिवसीयस्य छठमहापर्वणः प्रथमदिने नहायखाय इत्यस्य निमित्तं अभिनन्दनानि शुभाशंसाः च अयच्छत्।
मुख्यमन्त्रिणा डॉ॰ यादवेन सोशलमीडिया–एक्स् माध्यमेन प्रकाशितं यत्—
सन्तानस्य मंगलकामनायाः, परिवारस्य च सुखशान्तिसमृद्ध्याः निमित्तं समर्पणस्य त्यागस्य च पराकाष्ठारूपः इदं छठपूजापर्व। अस्य प्रथमदिवसस्य हार्दिकाः शुभाशंसाः।
छठीमाता तथा सूर्यदेवः मातॄणां कामनाः पूरयन्तु, सुखसमृद्धिसंपन्नतायाः च उत्तरोत्तरवृद्धिं ददतु।
---
हिन्दुस्थान समाचार / अंशु गुप्ता