Enter your Email Address to subscribe to our newsletters

पटना, 25 अक्टूबरमासः (हि.स.)। मुख्यमन्त्रिणा नीतीशकुमारस्य लोकआस्थायाः चतुर्दिवसीय महापर्वणः षष्ठस्य अवसरं प्रति प्रदेशवासिभ्यः देशवासिभ्यश्च हार्दिकाः बधाईः शुभकामनाश्च प्रदत्ताः। स्वसन्देशे सः उक्तवान् — “लोकआस्थायाः एषः महापर्वः आत्मानुशासनस्य, पवित्रतायाः, श्रद्धायाः च प्रतीकः अस्ति। जनाः शुद्धान्तःकरणेन निर्मलेन च मनसा अस्ताचलगामिनं तथा उदयमानं भगवन्तं सूर्यं प्रति अर्घ्यं समर्पयन्ति।” तेन एवमपि उक्तम् — “षष्ठपर्वेण समाजे स्वच्छतायाः, अनुशासनस्य, सामूहिकसद्भावस्य च सन्देशः प्रसारितः भवति।”
मुख्यमन्त्रिणा महापर्वणः षष्ठस्य अवसरं प्रति भगवतः भास्करस्य चरणयोः प्रार्थना कृता — “राज्यस्य प्रगत्यै, सुखाय, शान्तये, समृद्धये च मम हार्दिका प्रार्थना अस्ति।” लोकआस्थायाः चतुर्दिवसीय महापर्वणः षष्ठस्य शुभारम्भः अद्य नहायखाय इत्यनेन सम्पन्नः। प्रदेशे सर्वत्र श्रद्धालुभिः स्नानं कृत्वा भगवतः सूर्यस्य षष्ठीमातुः च पूजाः अर्चनाश्च कृता। गृहेषु व्रतीभिः शुद्धतायुक्तया पारम्परिकविधिविधानैः च पर्वस्य आरम्भः कृतः। षष्ठानुष्ठानस्य अन्तर्गतं 26 अक्टूबरदिनाङ्के खरना भविष्यति, 27 अक्टूबर दिनाङ्के संध्यार्घ्यः दास्यते, 28 अक्टूबर दिनाङ्के उदीयमानाय भगवते भास्कराय अर्घ्यं दत्त्वा एषः महापर्वः सम्पूर्णः भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता