मुख्यमंत्री आदित्यनाथः जेवरअन्ताराष्ट्रियविमानपत्तनके कार्याणां समीक्षामकरोत् की
गौतम बुद्ध नगरम्, 25 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमन्त्री योगी आदित्यनाथः अद्य अत्र जेवरनाम्नि स्थले निर्मियमाणे नोएडा-अन्ताराष्ट्रीय-विमानपत्तने आगच्छन्। मुख्यमन्त्रिणा तत्र प्रवर्तमाननिर्माणकार्याणां समीक्षा कृता। तेन जेवरविमानपत्
मुख्यमंत्री योगी आदित्यनाथ ने जेवर इंटरनेशनल एयरपोर्ट के कार्यों की  समीक्षा की


गौतम बुद्ध नगरम्, 25 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमन्त्री योगी आदित्यनाथः अद्य अत्र जेवरनाम्नि स्थले निर्मियमाणे नोएडा-अन्ताराष्ट्रीय-विमानपत्तने आगच्छन्। मुख्यमन्त्रिणा तत्र प्रवर्तमाननिर्माणकार्याणां समीक्षा कृता। तेन जेवरविमानपत्तनसम्बद्धान् अधिकारिणः प्रति दृढनिर्देशाः दत्ताः यत् शीघ्रं अवशिष्टकार्याणि समाप्येरन् इति।

मुख्यमन्त्रिणः आगमनात् अनन्तरं चर्चा अभवत् यत् नवम्बरमासस्य अन्तिमसप्ताहे अथवा दिसम्बरमासे एव जेवरविमानपत्तनात् विमानयानानि प्रचलिष्यन्ति इति।

गोष्ठ्यां यमुना-विकास-प्राधिकरणस्य मुख्यकार्यपालकाधिकारिणा आर.के. सिंहेन सह नोएडा-अन्तरराष्ट्रीय-विमानपत्तन-नियाल्-संस्थायाः अधिकारी, जिलाप्रशासनस्य अधिकारी, पुलिसाधिकारी, जेवरविधानसभायाः विधायकः धीरेंद्रसिंहः, गौतमबुद्धनगरजनपदस्य प्रभारीमन्त्री कुंवरबृजेशकुमारसिंहः च अन्ये च बहवः अधिकारी नेतारश्च उपस्थिताः आसन्।

मुख्यमन्त्रिणः आगमनकारणे तत्र विशालः पुलिसबलं नियोजितम्। मुख्यमन्त्री हिंडनविमानपत्तनात् हेलिकॉप्टरेण द्वादशवादने समीपे जेवरविमानपत्तनं प्राप्तवान्। सः तत्र अधिकारिभिः सह बैठकां कृत्वा ततः परं दिल्लीं प्रति प्रस्थितवान्।

श्वः गाजियाबादनगरमध्ये राष्ट्रपतिः द्रौपदी मुर्मुः एकस्य चिकित्सालयस्य उद्घाटनसमारोहे अपि मुख्यमन्त्री योगी आदित्यनाथः रक्षामन्त्री राजनाथसिंहेन सह उपस्थितः भविष्यति।

-----------

हिन्दुस्थान समाचार