Enter your Email Address to subscribe to our newsletters

१९४७ तमे वर्षे भारतविभाजनानन्तरं च स्वातन्त्र्यलाभस्य पश्चात् जम्मूकाश्मीरप्रदेशस्य राजनैतिकस्थितिः अस्थिरा आसीत्।
एतस्मिन्नेव काले तस्य राज्यस्य शासकः राजाहरिसिंहः ऐतिहासिकं निर्णयं कृत्वा जम्मूकाश्मीरराज्यस्य भारतसङ्घे विलयनं स्वीकृतवान्।
एषः निर्णयः भारतीय-इतिहासे एकः महत्त्वपूर्णः परिवर्तनबिन्दु: , इति रूपेण अंकितः अभवत्।
राज्ञः हरिसिंहस्य अनुमत्यनन्तरं तत्कालीनभारतीयसर्वकार: राज्यस्य सुरक्षाप्रशासनयोः सुनिश्चित्य आवश्यकाणि उपायानि कृतवान्।
भारतीयसेनायै राज्ये प्रवेशस्य अनुमति: दत्ता,
भारतीयसंविधानस्य अन्तर्गतं च जम्मूकाश्मीरः भारतस्य अंग: अभवत्।
एतेन न केवलं राज्यस्य राजनैतिकास्थिरता निवारिता, अपितु नवभारतस्य भौगोलिक–अखण्डता दृढीभूता।
एतस्य विलयनप्रक्रियायाः फलस्वरूपेण जम्मूकाश्मीरे न केवलं प्रशासनिकव्यवस्था सुचारुतां प्राप्तवती,
अपितु सम्पूर्णप्रदेशे शान्तिसुरक्षास्थैर्यं च सम्पादितम्। एषा ऐतिहासिकी घटना स्पष्टं करोति यत् जम्मूकाश्मीरः भारतीयगणराज्यस्य अभिन्नः अंगः अस्ति,
तस्य नागरिकाश्च भारतीयसंविधानाधीनं समानाधिकारस्य अधिकारिणः भवन्ति।
राज्ञः हरिसिंहस्य एषः निर्णयः अद्यापि भारतीयैक्यस्य अखण्डतायाश्च प्रतीकः इति रूपेण स्मर्यते,
यः स्वातन्त्र्यभारतस्य निर्माणे महत्त्वपूर्णं योगदानम् अकरोत्।
महत्त्वपूर्णघटनाचक्रः (इतिहासे अद्यतनदिने जाताः घटनाः)
१७७४ — फिलाडेल्फियानगरमध्ये अमेरिकायाः प्रथमं महाद्वीपीयसम्मेलनं स्थगितम्।
१८५८ — एच्. ई. स्मिथ् इत्यनेन धावनीयन्त्रस्य (Washing Machine) अधिकारः प्राप्त:।
१९०५ — नॉर्वेदेशः स्वीडनदेशात् स्वातन्त्र्यं प्राप्तवान्।
१९३४ — महात्मागान्धिनः संरक्षणे अखिलभारतीयग्रामीण-उद्योगसंघः स्थापितः।
१९४३ — कलकत्तानगरे हैजामहामारी उत्पन्ना, यस्मिन् सप्ताहे २१५५ जनाः मृताः।
१९४७ — राजाहरिसिंहः जम्मूकाश्मीरस्य भारतसङ्घे विलयम् अनुमन्यते स्म।
१९४७ — इराक्देशे ब्रिटिशसेनायाः अधिकारः समाप्तः।
१९५० — मदरटेरेसा नाम्ना साध्वी इत्यनया कलकत्तायां Missionaries of Charity संस्थापिता।
१९५१ — विन्स्टनचर्चिल् पुनः ब्रिटेनदेशस्य प्रधानमन्त्रित्वं प्राप्नोत्।
१९६९ — चन्द्रमण्डले गतम् अन्तरिक्षयात्रीद्वयम् — नील् आर्मस्ट्राङ्ग् तथा एड्विन् एल्ड्रिन् — मुंबईनगरं आगच्छताम्।
१९७५ — मिस्रदेशस्य राष्ट्रपतिः अन्वर् सादात् अमेरिकादेशं आधिकारिकयात्रां कृतवान्; सः प्रथमः मिस्रदेशीयः राष्ट्रपतिः आसीत् यः तत्र अगच्छत्।
१९७६ — त्रिनिदादटोबैगो गणराज्य: ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तवान्।
१९८० — इजराइल्राष्ट्रस्य राष्ट्रपतिः यित्झाकनावोनः मिस्रयात्रां कृतवान्, सः अपि प्रथमः इजराइलीराष्ट्रपतिः आसीत्।
१९९४ — इजराइलजार्डनराष्ट्रयोः मध्ये अरवाक्रासिङ्स्थले शान्तिसन्धिः सम्पन्ना।
१९९९ — भारतीयोच्चतमन्यायालयेन आजीवनकारावासस्य अवधिः चतुर्दशवर्षपर्यन्ता निश्चिता।
२००१ — जापानदेशः भारतपाकिस्तानयोः प्रति लग्नान् प्रतिबन्धान् अपसारितवान्।
२००५ — वर्षं २००६ इति भारतचीन–मैत्रीवर्षम् इति निर्णयः कृतः।
२००६ — इजराइल्देशे मन्त्रीकश्चन भारतस्य बराक् सन्धिविषये अन्वेषणं याचितवान्।
२००७ — नासासंस्थायाः डिस्कवरीयानं अन्ताराष्ट्रीय–अवकाशकेन्द्रे सफलतया अवतारितम्।
२००७ — अमेरिकायाः शासनम् ईरानदेशस्य Islamic Revolutionary Guards तथा तत्रस्थितेषां बाङ्कानां प्रति प्रतिबन्धं स्थापितम्।
२०१२ — बर्मादेशे हिंस्रसंघर्षेषु ६४ जनाः मृताः।
२०१२ — अफ्गानिस्तानदेशे मस्जिद्मध्ये आत्मघातकविस्फोटः, ४१ मृताः, ५० आहताः।
२०१५ — हिन्दूकुश्पर्वतश्रेण्यां ७.५ तीव्रतायुक्तः भूकम्पः, ३९८ मृताः, २५३६ आहताः।
जन्माः (प्रसिद्धपुरुषाणां जन्मदिनानि)
१८९० — गणेशशङ्करविद्यार्थी — स्वाधीनतासंग्रामे महत्त्वपूर्णं योगदानं कृतवान्।
१८८६ — गोदावरीशमिश्र: — उडिसाराज्यस्य प्रसिद्धः समाजसुधारकः, साहित्यकारः, जनकार्यकर्ता च।
१९२० — मधुकरदिघे — भारतीयराजनीतिज्ञः, मेघालय–अरुणाचलप्रदेशयोः राज्यपालः।
१९२३ — रामप्रकाशगुप्तः — भारतीयजनतापक्षस्य नेता, उत्तरप्रदेशस्य पूर्वमुख्यमंत्री, मध्यप्रदेशस्य राज्यपालः च।
१९२४ — ठाकुरप्रसादसिंहः — भारतस्य नवगीतविधायाः प्रसिद्धकविः।
१९२९ — वेम्पतिचिन्नसत्यम् — शास्त्रीयनर्तकः, कुचिपुडीनृत्ये निपुणः।
१९३३ — एस्. बंगरप्पः — भारतीयराष्ट्रीयकाँग्रेसस्य राजनीतिज्ञः, कर्नाटकस्य पूर्वमुख्यमंत्री।
१९३४ — जे. डी. रमबाई — मेघालयराज्यस्य नवमः मुख्यमंत्री।
१९३७ — हृदयनाथमङ्गेशकः — हिन्दीचित्रपटक्षेत्रस्य विख्यातः सङ्गीतकारः।
१९७१ — प्रीतिसिंहा — भारतीयसाहित्यकारउपन्यासकार-सम्पादिका: च।
२००२ — जेरिमीलालरिनुङ्गः — भारतस्य भारोत्तोलकक्रीडकः।
निधनानि (प्रसिद्धपुरुषाणां निधनदिनानि)
१९४७ — लॉर्ड्लिटनद्वितीयः — बंगालस्य ब्रिटिशराज्यपालः (१९२२–२७)।
१९५५ — डी. वी. पलुस्करः — प्रसिद्धः शास्त्रीयगायकः।
१९५६ — बलराजभल्लः — प्रसिद्धः क्रान्तिकारी, महात्मा हंसराजस्य पुत्रः।
१९८१ — दत्तात्रेयरामचन्द्रबेंद्रे — प्रसिद्धः कन्नडसाहित्यकारः कविः च।
२००० — मन्मथनाथगुप्तः — प्रमुखः क्रान्तिकारी, लेखकः च।
२००९ — क्रान्ति त्रिवेदी — विंशतितमे शतके प्रतिष्ठिता हिन्दीलेखिका।
-----------------
हिन्दुस्थान समाचार / अंशु गुप्ता