Enter your Email Address to subscribe to our newsletters

जयपुरम्, 25 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः “सर्वसहभागः, सर्वविकासः, सर्वविश्वासः” इति सिद्धान्तं अनुगच्छन् प्रदेशे आकाङ्क्षि-जिलानां आकाङ्क्षि-खण्डानां च समावेशी सतत् विकासः सुनिश्चितः जातः। प्रधानमन्त्रिणः अस्य अभियानस्य प्रवाहं प्रवर्धयन् मुख्यमन्त्री भजनलालशर्मा विकसित-राजस्थानस्य सङ्कल्पं साकारयितुं दिशां प्रति प्रतेकं ४१ जिलात् एकैकं खण्डं प्रति “गुरु-गोलवल्कर-आकाङ्क्षि-खण्ड-विकास-योजना” इत्यस्य आरम्भं कृतवान्।
अविकसित-जनापदानाम् उत्थानार्थं जनवरी २०१८ तमे वर्षे ११२ जिलेषु “आकाङ्क्षि-जनपद-कार्यक्रमः (ADP)” इति प्रारब्धः। केन्द्रसत्ता तथा नीति-आयोगेन सञ्चालितः अयं कार्यक्रमः नागरिकानां सामाजिक–आर्थिक–जीवनस्तरं ऊर्ध्वं नेतुं महत्त्वपूर्णं योगदानं दत्तवान्। अस्य कार्यक्रमस्य अन्तर्गतं राजस्थानस्य पञ्च जिलाः — बारां, धौलपुरम्, जैसलमेरम्, करौली, सिरोही — एतेषां स्वास्थ्य–पोषण, शिक्षा, कृषि–जलस्रोत, वित्तीय–समावेशनं कौशल-विकासं च क्षेत्रेषु कार्यं प्रचलितम् अस्ति।
एषः कार्यक्रमः आँकडाभारितः अस्ति, यस्मात् चिन्हित–जिलानां प्रति मासं “डेल्टा-रैंकिंग्” प्रकाशितः भवति। एकोनपञ्चाशत् सूचकाङ्कानां आधारेण कार्यस्य निरीक्षणं मूल्याङ्कनं च कृत्वा उत्कृष्ट-प्रदर्शनं कुर्वन्तः जिलाः पुरस्कारेण सम्मान्यन्ते। अस्याः प्रणालीतः अद्यावधि बारां-जिलं १७.५१ कोट्याः, धौलपुरं १५.८२ कोट्याः, जैसलमेरं ९.६२ कोट्याः, करौलीं ९.०५ कोट्याः, सिरोहीं ४.८१ कोट्याः रूप्यकाणां पुरस्कारराशिं प्राप्यन्त।
एतेषां आकाङ्क्षि-जिलानां सफलतानां विकासस्य च प्रसारं खण्डस्तरं प्रति नेतुं जनवरी २०२३ तमे वर्षे “आकाङ्क्षि-खण्ड-कार्यक्रमः” अपि आरब्धः। अस्याः योजनायाः अन्तर्गतं राजस्थानस्य २७ खण्डाः — किशनगञ्ज, बसेरी, फतेहगढ, मासलपुर, आबूरोड, नीमराणा, सज्जनगढ, रामसर, वैर, कोटडी, कोलायत, केशवरायपाटन, निम्बाहेडा, राजगढ, रामगढ-पचवारा, झोन्थरी, संगरिया, अहोर, खानपुर, शेरगढ, जायल, रानी, पीपलखूंट, भीम, गंगापुरसिटी, पीपलू, खेरवाडा च — एतेषु स्वास्थ्य, शिक्षा, कृषि-संबद्ध-सेवाः, अधिसंरचना, कौशल-विकास इत्यादि क्षेत्रेषु विकासकार्यं प्रवर्तमानम्।
मुख्यमन्त्री भजनलालशर्मा विकसित-राजस्थान-सङ्कल्पं साकारयितुं समग्र–समावेशी–विकासभावनया “गुरु-गोलवल्कर-आकाङ्क्षि-खण्ड-विकास-योजना” आरब्धवान्। अस्याः सफल-क्रियान्वयनाय २७ मार्च २०२५ तमे दिने विशेष-निर्देशाः अपि निर्गताः। अस्याः अन्तर्गतं प्रतेक-जिलात् एकः खण्डः चयनितः। अस्या योजना द्वारा ४१ खण्डेषु लक्षित-विकास-कार्यक्रमाः सञ्चाल्यन्ते, यैः ते विकसित-खण्ड-श्रेणीं प्रति नीतुं लक्ष्यं निश्चितम्।
वित्त-वर्षे २०२५–२६ राज्य-बजटे आकाङ्क्षि-खण्ड-विकासाय ७५ कोट्याः रूप्यकाणां प्रावधानं कृतम्, यत्र प्रतेकं खण्डं प्रति १.५ कोट्याः (अनटाइड्-फण्ड्) निधिः निर्दिष्टः। ३० खण्डात् “प्लान् ऑफ् ऐक्शन” प्राप्तम् अस्ति। अस्मिन् उत्तम-प्रदर्शनं कुर्वन्तः खण्डाः वार्षिक-पुरस्कारैः सम्मान्यन्ते — प्रथमः खण्डः ५० लक्षरूप्यकाणां, द्वितीयः ३५ लक्षरूप्यकाणां, तृतीयः २५ लक्षरूप्यकाणां पुरस्कारराशिं प्राप्स्यन्ति।
अस्मिन् “गुरु-गोलवल्कर-आकाङ्क्षि-खण्ड-विकास-योजना” अन्तर्गतं ४१ खण्डाः — भिनाय, रामगढ, सिणधरी, गढी, शाहबाद, चौहटन, मसूदा, भूसावर, करेड़ा, बीकानेर, तालेड़ा, गंगरार, चूरू, सिकंदरा, पहाड़ी, सैपऊ, नावा, गलियाकोट, भाद्र, चाकसू, सम, जालौर, झालरापाटन, झुंझुनूं, सेखाला, करौली, तिजारा, लाडपुरा, बानसूर, मेड़ता, बाली, आऊ, धमोतर, कुंभलगढ, खंडार, सराड़ा, खंडेला, पिंडवाड़ा, सादुलशहर, उनियारा, कोटड़ा च सम्मिलिताः। अस्याः क्रियान्वयनार्थं सर्वेषां चयनित-खण्डानाम् आधार-डाटा-सङ्ग्रहः सम्पन्नः, विकास-रणनीतयः अपि प्राप्यन्ते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता