Enter your Email Address to subscribe to our newsletters



हिसारः, 25 अक्टूबरमासः (हि.स.)।जनपदस्य पेटवाड़ ग्रामे जन्मप्राप्तः न्यायमूर्ति सूर्यकान्तः भारते त्रिपञ्चाशः मुख्यन्यायाधीशः (सी.जे.आई.) भविष्यति। सः वर्तमानमुख्यन्यायाधीशस्य बी.आर. गवई इत्यस्य आगामी २३ नवम्बर् तिथौ सेवानिवृत्तेः अनन्तरं तं पदं ग्रहीष्यति, तथा च ९ फरवरी २०२७ पर्यन्तं तस्मिन् पदे स्थास्यति। एतादृशं मानं प्रदेशाय प्रथमवारं लभ्यते। अस्य अवसरस्य निमित्तं सर्वे ग्रामवासिनः अत्यन्तं हृष्टाः सन्ति। दीपावल्यानन्तरं पुनरपि एकस्मिन् दिवसे दीपावलिसदृशः उत्सवः अस्मिन् ग्रामे दृश्यते इति जनाः कथयन्ति।
दीपावल्याः पूर्वसन्ध्यायां एव न्यायमूर्ति सूर्यकान्तः स्वस्य पैतृकग्रामं पेटवाड़ं गत्वा बाल्यस्मृतयः सर्वाः पुनः अनुभवितवान्। सः स्वगृहम् अपि अगच्छत्, यस्मिन् तस्य बाल्यजीवनं व्यतीतम्। तस्य जन्म अपि तस्मिन्नेव गृहे जातम्। यत्र विद्यालये सः प्राथमिकशिक्षां प्राप्नोत्, तत्रापि गत्वा कतिचनक्षणानि व्यतीतानि। यस्मिन् कक्षे सः उपविश्य पाठं पठति स्म, तं कक्षं दीर्घकालं निरीक्षितवान्। ग्रामस्य सरपञ्चः सतवीरः सिंहः उक्तवान् यत् सः यदा यदा ग्रामं आगच्छति तदा ग्रामवासिभिः सह सस्नेहम् मुक्तहृदयेन च संवादं करोति।
न्यायमूर्तेः सूर्यकान्तस्य ज्येष्ठभ्राता मास्टर ऋषिकान्तः उक्तवान् — तस्य मुख्यन्यायाधीशपदे आरोहणेन सम्पूर्णप्रदेशस्य नाम प्रतिशोभितं भविष्यति। सः आद्यकालादेव अध्ययनप्रति अत्यन्तं तत्परः आसीत्। यदा ग्रामं आगच्छति तदा सर्वैः ग्रामजनैः सह मिलित्वा कुशलं पृच्छति।
न्यायमूर्तेः सूर्यकान्तस्य पिता मदनलालशास्त्री अध्यापकः आसीत्। तेन चतुर्दश पुस्तकानि लिखितानि, यासु हरियाणवीभाषया रचितं रामायणं नामकं ग्रन्थम् अपि अस्ति। तस्मात् कारणात् तस्मै हरियाणा-साहित्य-अकादम्याः पक्षतः सूरदासपुरस्कारः प्रदत्तः आसीत्।
न्यायमूर्तिः सूर्यकान्तः १० फरवरी १९६२ तमे दिने मध्यमवर्गीयकुले जातः। तेन ग्रामस्य प्राइमरीविद्यालये प्राथमिकशिक्षा प्राप्ता, ततः दशमकक्षां अपि ग्रामस्यैव सरकारीविद्यालये उत्तीर्णवान्। सः १९८१ तमे वर्षे राजकीयस्नातकोत्तरमहाविद्यालयात् (हिसार) स्नातकपदवीं प्राप्य, १९८४ तमे वर्षे महर्षिदयानन्दविश्वविद्यालयात् (रोहतक) विधिस्नातकपदवीं अलभत। तेन १९८४ तमे वर्षे हिसार्-जिलान्यायालये वकालतम् आरब्धम्। १९८५ तमे वर्षे सः चण्डीगढं गतवान्, यत्र पञ्जाब-हरियाणा-उच्चन्यायालये वकालतं कर्तुं प्रारब्धवान्।
७ जुलाई २००० तमे दिने सः हरियाणाराज्यस्य सर्वात्युने महाधिवक्त्रपदे नियुक्तः जातः। ततः मार्च २००१ तमे मासे वरिष्ठाधिवक्त्ररूपेण नामनिर्दिष्टः अभवत्। ९ जनवरी २००४ तमे दिने सः पञ्जाबहरियाणा-उच्चन्यायालयस्य स्थायीन्यायाधीशः अभवत्। ५ अक्टूबर २०१८ तः २३ मई २०१९ पर्यन्तं सः हिमाचलप्रदेशस्य मुख्यन्यायाधीशपदे आसीत्। ततः २४ मई २०१९ तमे दिने सः भारतस्य उच्चतमन्यायालयस्य न्यायाधीशरूपेण पदोन्नतः अभवत्।
----------------
हिन्दुस्थान समाचार