Enter your Email Address to subscribe to our newsletters


जौनपुरम्, 25 अक्टूबरमासः (हि.स.)।
लौहपुरुषः सरदार बल्लभभायः पटेलस्य १५०तमे जयंतीवर्षस्य अवसरं प्रति भारतीयजनतापक्षस्य जनपदकार्यालये जनपदाध्यक्षस्य पुष्पराजसिंहस्य अध्यक्षतायां शनिवासरे सभा आसीत्। मुख्यअतिथेः रूपेण जनपदस्य प्रभारीमंत्री ए.के.शर्मा उपस्थितः आसीत्।
सर्वप्रथमं कार्यक्रमस्य शुभारम्भः पार्टीपूर्वोघः पं. दीनदयाल उपाध्यायस्य च श्यामा प्रसाद मुखर्जी च चित्रे माल्यार्पणेन कृतः।
कार्यकर्तॄणां प्रति भाषतेन प्रभारीमंत्रेण ए.के. शर्मा उक्तं – “एकतामार्चस्य सफल आयोजनाय विस्तीर्णकार्ययोजना निर्मातव्या। विद्यालयेषु महाविद्यालयेषु च सांस्कृतिकजनजागरूकतायाः कार्यक्रमाः भव्यरूपेण क्रियन्ताम्। अस्मिन् अभियाने युवाः, महिलाः, स्थानीयनिकायाः, एन.सी.सी., स्वयंसहायतासमूः, जनप्रतिनिधयः च विविधसामाजिकसंगठना: सक्रियभागं कुर्वन्तु। सर्वे कार्यक्रमाणि राज्यस्तरे प्रकाशितानि भवन्तु, यथा संदेशः अधिकाधिकजनानां प्रति प्राप्यते।”
तत् उपरि उक्तम् – “अस्मिन् अभियाने लक्ष्यं राष्ट्रियैक्यसन्देशस्य गृहगृहं प्रेषणम्। सरदारवल्लभभायः पटेलस्य योगदानं च ‘एक भारत श्रेष्ठ भारत’ संकल्पः जनजनानां प्रति प्रेष्येत। कार्यक्रमः भव्यः प्रेरणादायकश्च आयोज्यताम्।” सर्वपुत्राः युवा: ऐतिहासिकतया पटेलस्य १५०तमे जयंतीम् आचर्यन्ताम्, यथा नवपिढ्या तेषां योगदानात् विचारात् प्रेरिताः स्यु:। सरदारपटेलः अदम्यसाहसः, दृढइच्छाशक्तिकौशलेन भारतं सशक्तराष्ट्रं कृतवान्। विविधरियासत्संघटनया एकभारतस्य नीवं स्थापयित्वा भारतः अखण्डसंपूर्णराष्ट्ररूपेण संस्थापितः। तस्य कूटनीतिः दूरदर्शिता च स्वतंत्रभारते इतिहासे महत्त्वपूर्णं योगदानं दत्तवान्।
जनपदाध्यक्षः पुष्पराजसिंहः धन्यवादं ज्ञापयित्वा उक्तवान् – “प्रधानमंत्री नरेन्द्र मोदी सरदारपटेलस्य सपनान् अग्रे नयन्ति। प्रधानमंत्री नेतृत्वे ‘एक भारत श्रेष्ठ भारत’ दृष्ट्या भारतः सर्वक्षेत्रे अग्रे गच्छति। नर्मदा जपदस्य केवडियायां सरदारपटेलस्य सम्मानार्थ ‘स्टैच्यू ऑफ यूनिटी’ निर्मितः, यः विश्वस्य उच्चतमः प्रतिमा च भारतस्य एकता, अखण्डता तथा राष्ट्रीयगौरवस्य प्रतीकः। सरदारपटेलस्य विचाराः अद्यापि देशं एकता, समरसता च सशक्तभारतरचना हेतु प्रेरयन्ति।”
कार्यक्रमस्य संचालनं जिलामहामन्त्री सुशील मिश्रः कृतवान्।
उक्तसंध्यायां शाहगंजविधायकः रमेशसिंहः, जिलामहामन्त्री: पीयूषगुप्ता, सुनीलतिवारी, संदीपसरोज, संतोषसिंह, सुधाकरउपाध्याय, रविन्द्रसिंहदादा, अवधेशकुमार यादव, ब्लाकप्रधानः विजयसिंह, धीरूसिंह, सुनील यादव, धनंजयसिंह, बेचनपांडेय, आमोदसिंह, नरेंद्र उपाध्याय, अनिलगुप्ता, रागिनीसिंह च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता