Enter your Email Address to subscribe to our newsletters

भोपालम्, 25 अक्टुबरमास: (हि.स.)। सूर्योपासनायाः अनुपमं पर्वः अस्ति छठ्-महापर्वः, यः शनिवासरे आरब्धः। अयं पर्वः आस्था-संयम-पर्यावरणैः सह संयुक्तायाः भारतीयसंस्कृतेः दीप्ततमम् उदाहरणम्। उच्यते यः जनः श्रद्धया सूर्यदेवम् उपासते, सः आरोग्यं, समृद्धिं, सुखशान्तिं च प्राप्नोति। अयं पर्वः प्रकृतेः प्रति कृतज्ञतायाः आत्मशुद्धेः च संदेशं ददाति।
उल्लेखनीयम् यत्, कार्तिकमासस्य शुक्लपक्षचतुर्थ्यां आरभ्य सप्तम्याः समाप्तिः यावत् एषः पर्वः चतुर्दिवस-पर्यन्तम् आचर्यते। अस्मिन् वर्षे 25 तः 28 अक्टुबरपर्यन्तम् अयं महोत्सवः आचर्यते। राजधानीभोपालनगरे नगरनिगम-प्रशासनयोः श्रद्धालूनां सुविधायै सम्यक्व्यवस्था कृता। घाटेषु स्वच्छता, रङ्गरागः, मर्म्मतिः, विद्युत्सज्जा, चलितशौचालयः, वस्त्रपरिवर्तनकक्षाः, पेयजलव्यवस्थाश्च सम्यग् कृताः।
भोपालस्य 52 घाटेषु भविष्यति छठ्-पूजा
नगरे शीतलदासबगिया, कमलापार्क, वर्धमानपार्क (सूर्यास्तबिन्दुः), खटलापुरघाट, कालीमन्दिरघाट, प्रेमपुराघाट, हथाईखेड़ाबन्धः, बरखेड़ा, घोड़ा-पछाड़-डैम् इत्यादिषु कुलं 52 स्थलेषु छठ्-महापर्वस्य आयोजनं भविष्यति। नगरनिगमस्य दलानि शुक्रवासर-रात्रौ पर्यन्तं स्वच्छतासज्जायां च तिष्ठन्ति स्म।
भोजपुरी-एकता-मञ्चस्य अध्यक्षः कुँवरप्रसादः उक्तवान्— अस्मिन् वर्षे लक्षसंख्ये श्रद्धालवः अर्घ्यदानाय घाटेषु आगमिष्यन्ति। सः उक्तवान्— “नगरे उत्तरभारतीयसमुदायस्य मध्ये छठ्-पर्वस्य उत्साहः चरमं गतः। आपणेषु पूजासामग्रीणां, सूप-दौराणां, ठेकुआ-आकारकानां, फलानां सज्जासामग्रीणां च विक्रयः अत्यधिकः दृश्यते।” शीतलदासबगियायां भोजपुरी-एकता-मञ्चस्य दलः स्वयं स्वच्छतायाः अभियानं चकार, श्रद्धालूनां स्वागताय च सज्जताम् अकरोत्।
आचार्यभरतचन्द्रदुबेः उक्तिः— छठ्-पर्वः जीवनं प्रति अनुशासनं संयमं प्रकृतेः च आभारं शिक्षयन् उत्सवः अस्ति। अयं पर्वः अस्मान् बोधयति यत् यदा वयं सूर्यं, यः अस्माकं सौरमण्डलस्य जीवनदाता अस्ति, श्रद्धया नमामः, तदा वयं स्वस्य अन्तःस्थितां ऊर्जा-शुद्धतां-कृतज्ञतां च जागरयामः।
प्रशासनस्य सज्जता—सुरक्षायाः कठोराः उपायाः कृताः
प्रशासनं श्रद्धालूनां सुरक्षायाः प्राथमिकतां दत्तवान्। घाटेषु आरक्षखबलम्, गोताखोरदलम्, चिकित्सासहायककेन्द्राणि च नियुक्तानि। यातायात्-आरक्षकाः मुख्यघाटानां समीपे वाहननिवेशनाय, गमनागमनाय च विशेषमार्गयोजना निर्मिता। प्रकाशव्यवस्था, अवरोधकसज्जा, नियन्त्रणकक्षाणि च स्थाप्यन्ते, यतः आकस्मिकस्थितौ शीघ्रसहाय्यं प्रदातुं शक्येत।
छठ्-महापर्वस्य चत्वारः पवित्रदिवसाः—तपः, भक्ति, शुद्धतायाः च प्रतीकाः
प्रथमदिवसं नहायखाय इत्याख्यायते। अस्मिन् दिवसे व्रतीनार्यः नदी-तडागेषु स्नानं कृत्वा कदली-ओदनं प्रसादं निर्मायन्ति। एषः प्रसादः शुद्धतायाः सात्त्विकतायाः च प्रतीकः। परिवारसहितं भोजनं भुक्त्वा एव व्रतस्य आरम्भः भवति। परम्परानुसारं अस्मिन् दिवसे लशुन-पलाण्डुः रहितं भोजनं निर्मीयते, यत्र लौकि इत्यस्य शाकम्, अरवा-ओदनम्, चणकदलः, परपटः, आमलकलेहम्, तिलौरी च अन्तर्भवन्ति।
द्वितीयदिवसं खरनं नाम—उपवासः आत्मसंयमस्य च दिवम्। व्रतीनार्यः आदिवसम् अखण्डं निर्जलोपवासं कुर्वन्ति, सायं काले भगवान्भास्करस्य पूजां कुर्वन्ति। मृण्मयचुलिकायां गुड-ओदनं-पायसं गोधूमस्र रोटिकां च निर्माय, छठीमातरे अर्पयन्ति। ततः आरभ्य व्रतीनार्यः 36 होरात्मकं निर्जलव्रतं गृह्णन्ति।
तृतीयदिवसं डालाछठ् नामकं विशेषदिवसम्। अस्मिन् दिवसु श्रद्धालवः अस्तमतसूर्याय अर्घ्यं ददति। नदीघाटेषु कुलैः सह आगत्य बांसपात्रेषु ठेकुआ-ओदनम् लड्डवः, फलानि, प्रसादानि च स्थाप्यन्ते। व्रतीनार्यः क्षीरजलाभ्यां सूर्यदेवाय अर्घ्यं ददति। विश्वासः अस्ति यत् अस्तमतसूर्याय अर्घ्यदानात् नेत्रज्योतिः दीर्घायुश्च लभ्यते। रात्रौ घाटेषु लोकगीतैः भक्तिगीतैः च वातावरणं भक्तिरसपूर्णं भवति।
चतुर्थः अन्त्यदिवसः उषाअर्घ्यपारणं नाम। अस्मिन् दिवसे व्रतीनार्यः उदयमानसूर्यं प्रति अर्घ्यं ददति, भगवानादित्यं प्रति परिवारस्य सुख-समृद्धि-आरोग्याणां प्रार्थनां कुर्वन्ति। अर्घ्यदानात् अनन्तरं 36 होरात्मकं निर्जलव्रतस्य समापनं भवति। ततः पारणं क्रियते, यत्र प्रसादेन सात्त्विकभोजनेन च व्रतं विश्रान्तिं प्राप्नोति।
हिन्दुस्थान समाचार / अंशु गुप्ता