Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 अक्टूबरमासः (हि.स.)।
काङ्ग्रेस्-दलस्य नेता उदितराजः शनिवासरे अत्र सरकारी-निवासस्य पुरतः पत्रकारसम्भाषणं कृत्वा उक्तवान् यत् सः स्वस्य सामानं मार्गे निक्षिप्य समग्रां रात्रिं व्यतीतवान्। सः अवदत् — “मम गृहं हर्तुं शक्यते, न तु मम वाणीं। यावत् देशे जातिगत-अन्यायः अस्ति, तावत् अहं मार्गेषु अपि संघर्षं करिष्यामि।”
अस्मिन् पत्रकारसम्मेलने झारखण्ड-काङ्ग्रेस्-प्रभारी के. राजू, उदितराजस्य पत्नी सीमा राज (पूर्व-आयकर-मुख्यनिदेशकः), काङ्ग्रेस्-दलस्य अनुसूचितजाति-विभागस्य अध्यक्षः राजेन्द्रपालगौतमः, राजस्थानराज्यस्य विधायकाऽनिता जाटव च उपस्थिताः आसन्।
सर्वे नेतारः एकस्वरे अवदन् — “एषा कार्या न केवलं प्रतिशोधभावनया प्रेरिता, अपि तु दलितनेतॄणाम् स्वराज्यवाणीं दमनाय कृतप्रयासः अस्ति।
एषा घटना प्रदर्शयति यत् सत्तासु स्थिताः जनाः विपक्षदलितनेतॄणां प्रति भयभीताः भवन्ति, तेषां वाणीं निवारयितुं सर्वाः मर्यादाः अतिक्रामन्ति च।
---------------
हिन्दुस्थान समाचार