Enter your Email Address to subscribe to our newsletters

मुंबई, 26 अक्टूबरमासः (हि.स.)।महाराष्ट्रराज्ये औरंगाबाद रेल्वे स्थानकस्य नामं निरसित्य अद्य छत्रपति संभाजीनगर रेलवे स्टेशन इति निरूपितम्। अस्य स्टेशनस्य कोडः CPSN इति निश्चितः।केंद्रीयगृहमन्त्रालयात् शनिवासरे एषः नामपरिवर्तनस्य अनुमोदनं प्रदत्तम्। अयं स्टेशन दक्षिणमध्य रेल्वे नांदेड़ विभागे अन्तर्भूतः अस्ति।मध्य रेल्वे अधिकारिभिः रविवासरे उक्तम् यत् – नामपरिवर्तनस्य औपचारिक प्रक्रिया पूर्णा अस्ति। शीघ्रमेव सर्वे प्लेटफॉर्म संकेतकाः, समयसूचीपत्राः, चिटिकाप्रणाली च डिजिटल प्रदर्शनमण्डलानि च नवनाम प्रदर्शयिष्यन्ति।पूर्वमेव मध्य रेल्वे शनिवासरे घोषणा कृतवती यत् औरंगाबाद रेलवे स्टेशनस्य नामं छत्रपति संभाजीनगर रेलवे स्टेशन इति परिवर्त्यत। अस्य स्टेशनस्य नवीनकोडः CPSN इति निर्धृतः।उल्लेखनीयम् यत् महाराष्ट्रसरकारेण २०२२ तमे वर्षे औरंगाबादस्य नामपरिवर्तनाय अनुमतिः प्रदत्तः, किन्तु रेलवे स्टेशननामपरिवर्तनस्य प्रक्रिया केंद्रीयमन्त्रालयस्य अनुमति च अन्य प्रशासनिक औपचारिकताः अनिवार्या आसन्। शनिवासरे सर्वे प्रक्रियाः संपन्नाः, अतः अद्य स्टेशनस्य नामकरणं छत्रपति संभाजीनगर इति कृतम्।यद्यपि राज्यसर्वकारस्य निर्णयं बॉम्बे उच्चन्यायालये तथा उच्चतम न्यायालये चुनौती दत्तानि आसन्, किन्तु उभयोः स्थलेषु याचिकाः निराकृताः।
---------------
हिन्दुस्थान समाचार