Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 अक्टूबरमासः (हि.स.)। दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता रविवासरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः मन की बात इति कार्यक्रमं केदारनाथसाहनी-प्रेक्षागृहे नवदिल्ली-नगर्यां आमजनैः सह भारतीयजनतापक्षस्य कार्यकर्तृभिः सह श्रुतवती। एतत् समाचारं मुख्यमन्त्री स्वस्य सामाजिक-पटले एक्स (X) इत्यत्र लिखितवती।
मुख्यमन्त्रिणा एक्स इत्यत्र लिखितं यत् मन की बात इति कार्यक्रमस्य आरम्भे प्रधानमन्त्रिणा महापर्व-छठपूजायाः शुभाशंसाः प्रदत्ताः। ततः ‘लौहपुरुष’ सरदारवल्लभभाइपटेलस्य जयंतीदिने, अर्थात् ३१ अक्टूबरे, आयोज्यमाने रन फॉर यूनिटी इति अभियानं प्रति देशवासिनां सक्रिय-सहभागिता आहूता।” तस्मिन् एव क्रमे सा लिखितवती यत् आगामि ७ नवम्बरदिने वन्दे मातरम् गीतस्य १५०वर्ष-प्रवेशोत्सवस्य अवसरात् प्रधानमन्त्रिणा नागरिकान् प्रति ‘#वन्दे मातरम्150’ इति माध्यमेन स्व-मूल्यवान् परामर्शान् साझा कर्तुं आग्रहः कृतः। सामाजिक-सहभागितां प्रोत्साहयन्ति ये विविधाः प्रेरक-प्रयासाः, तेषां प्रधानमन्त्रिणा प्रशंसा अपि कृता।
मुख्यमन्त्रिणा उक्तं यत् जनसंवादे आधारितः मन की बात इति कार्यक्रमः सामाजिक-सफलतानां जनभागीदारी-प्रेरणादायकानां कथानां च एकः महत्त्वपूर्णः मंचः जातः अस्ति। एषः कार्यक्रमः राष्ट्रं संयोजयति, प्रेरयति, च सकारात्मक-परिवर्तनस्य दिशायां सामूहिक-प्रयत्नं सशक्तरूपेण प्रोत्साहयति।
---------------
हिन्दुस्थान समाचार