गंगटोके जातं राज्य स्तरीय मैराथन 'सोल्जराथन 2.0-द ग्रेट हिमालयन कनेक्ट'
गंगटोकः, 26 अक्टूबरमासः (हि.स.)।राजभवनस्य सिक्किमराज्यस्य तथा भारतीयसेनायाः त्रिशक्तिकोर् अन्तर्गतस्य ब्लैक् कैट् डिवीजनस्य संयुक्तप्रयासेन रविवासरे प्रातः राजधानीगंगटोकनगरस्थे पाल्जोर् क्रीडाङ्गणे राज्यस्तरीयः मैराथनकार्यक्रमः “सोल्जराथन 2.0 – द ग
Marathon gangtok


गंगटोकः, 26 अक्टूबरमासः (हि.स.)।राजभवनस्य सिक्किमराज्यस्य तथा भारतीयसेनायाः त्रिशक्तिकोर् अन्तर्गतस्य ब्लैक् कैट् डिवीजनस्य संयुक्तप्रयासेन रविवासरे प्रातः राजधानीगंगटोकनगरस्थे पाल्जोर् क्रीडाङ्गणे राज्यस्तरीयः मैराथनकार्यक्रमः “सोल्जराथन 2.0 – द ग्रेट् हिमालयन् कनेक्ट्” इत्याख्यः भव्यरूपेण आयोजितः।

अस्य मैराथनस्य प्रमुखः उद्देशः आसीत् – सेना–नागरिकसमाजयोः समन्वयः, स्वास्थ्यजागरणं च राष्ट्रीयएकतायाः सुदृढीकरणम्।

अस्मिन् अवसरे सिक्किमराज्यस्य राज्यपालः श्रीमान् ओंप्रकाशमाथुरः, मिजोरमराज्यस्य राज्यपालश्च जनरल् वी.के. सिंहः (सेवानिवृत्तः) उपस्थितौ सन् प्रतिभागिनां उत्साहवर्धनं कृतवन्तौ।

कार्यक्रमे ब्लैक् कैट् डिवीजनस्य जी.ओ.सी. मेजरजनरल् एम्.एस्. राठौरः अपि सन्निहितः आसीत्।

कार्यक्रमस्य उद्घाटनं मिजोरमराज्यपालेन हरीध्वजप्रदर्शनद्वारा कृतम्।

सेनायाः पक्षतः क्रॉस् कन्ट्री टीमाः, लद्दाख् स्काउट्, सिक्किम् स्काउट्, डोग्रास्काउट् इत्यादीनां सक्रियः सहभागः अभवत्।

विभिन्नप्रदेशेभ्यः आगतानां प्रायः त्रिसहस्रप्रतिभागिनां मध्ये दिव्याङ्गजनानां सहभागः अपि दृष्टः, येन समावेशीसमाजस्य भावना प्रकाशिताभवत्।

मैराथनस्य भ्रमणे देशस्य विविधसंस्कृतिकप्रस्तुतयः अपि आयोजिताः, येन सर्वे दर्शकाः मोहिताः अभवन्।

पुरस्कारवितरणसमारोहे सिक्किमराज्यपालः, मिजोरमराज्यपालः, ब्लैक् कैट् डिवीजनस्य जी.ओ.सी. च, वरिष्ठनागरिकेभ्यः बालकेभ्यः च यथायोग्यं सम्मानं दत्तवन्तः।

पुरस्काररूपेण राजभवनात् नगद्राशिः प्रदत्ता।

राज्यपालः माथुरः उक्तवान् यत् – “एषः आयोजनः राज्यस्य युवाशक्तेः, सैन्य–सामाजिकसमन्वयस्य, नागरिकचेतनायाश्च दिशि प्रेरणादायिनी पहल् अस्ति।”

ते आयोजनसमितिं, सेनाधिकारिणः, प्रतिभागिनः, सर्वाणि सहयोगिसंस्थाः च सफलाय आयोजनाय हृदयेन अभिनन्दितवन्तः।

अस्मिन् अवसरे पाल्जोर् क्रीडाङ्गणे उल्लासपूर्णः वातावरणः दृष्टः, सहस्रशः नागरिकानां सक्रियभागीदारी च अस्य आयोजनस्य ऐतिहासिकत्वं संवर्धितवती।

-------------------------

हिन्दुस्थान समाचार