बिहारविधानसभानिर्वाचनम् : मतदानेन मतगणनया संबंधितः प्रशिक्षण कार्यक्रमः आयोजितः
कटिहारः, 25 अक्टूबरमासः (हि.स.)। बिहारस्य विधानसभा-सामान्यनिर्वाचनस्य 2025 सफल संचालनाय मतदानं च मतगणनां च सम्बन्धिनां कर्मिणां प्रशिक्षणकार्यक्रमः आयोज्यते। जिलानिर्वाचनाधिकारिणा सह जिलाधिकारी मनेशकुमार मीणा महोदयस्य अध्यक्षतायाम् आयोज्ये उक्ते
प्रशिक्षण शिविर


कटिहारः, 25 अक्टूबरमासः (हि.स.)।

बिहारस्य विधानसभा-सामान्यनिर्वाचनस्य 2025 सफल संचालनाय मतदानं च मतगणनां च सम्बन्धिनां कर्मिणां प्रशिक्षणकार्यक्रमः आयोज्यते।

जिलानिर्वाचनाधिकारिणा सह जिलाधिकारी मनेशकुमार मीणा महोदयस्य अध्यक्षतायाम् आयोज्ये उक्ते प्रशिक्षणसत्रे मतगणनासहायकाः, मतगणनासुपरवाइजराः, माइक्रो-अब्ज़र्वरः च पोस्टल्-बैलेट् मतगणनाकर्मिणः च उपस्थिताः आसन्।

प्रशिक्षणकाले मतगणनाप्रक्रियायाः सर्वविषयानि—यथा मतपेट्याः ई.वी.एम् परीक्षां, मतदानं मतगणनायाश्च काले रक्ष्यमानाः सावधान्याः, पारदर्शितायाः सुनिश्चितिकरणस्य उपायाः, च परिणामसङ्कलनप्रक्रियायाः विस्तृतविवरणं च प्रदत्तम्। प्रशिक्षणार्थिभ्यः निर्वाचनायोगस्य निर्देशानुसार मतदानं मतगणनां च प्रत्येकचरणे सावधानतया निष्पक्षतया च सम्पादयितव्यम् इति निर्देशः दत्तः।

कार्यक्रमस्य अन्ते जिलानिर्वाचनाधिकारी सह जिलाधिकारी उवाच—मतदानमतगणनाप्रक्रिया निर्वाचनस्य विश्वसनीयतायाः अतीव महत्वपूर्णं चरणं अस्ति, अतः प्रत्येककर्मिणः पूर्णसतर्कतया निष्पक्षतया च स्वकर्तव्यं निर्वर्तयेत्। प्रशिक्षणकार्यक्रमः शान्तिपूर्वक अनुशासनयुक्ते च वातावरणे सम्पन्नः।

---------------

हिन्दुस्थान समाचार