Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वस्य मासिक-रेडियो-कार्यक्रमे मनोवार्तायां सुरक्षाबलेषु भारतीय-जातीय-श्वानानां अभिस्वीकृतिं प्रशिक्षणं च प्रशंसितम्। तेन उक्तं यत् पञ्चवर्षपूर्वं सः देशवासिभ्यः सुरक्षाबलेभ्यश्च भारतीय-श्वानानां स्वीकृतिं प्रति आग्रहं कृतवान् आसीत्।
मनोवार्तायाः १२७ तमे प्रसारणे प्रधानमन्त्रिणा उक्तं यत् बीएसएफ (सीमासुरक्षा बलः) तथा सीआरपीएफ (केन्द्रीय आरक्षित पुलिस बलः) इत्येतयोः दलेषु भारतीय-जातीय-श्वानानां संख्या वर्धिता अस्ति। बीएसएफस्य राष्ट्रीय प्रशिक्षण केन्द्रं टेकनपुरे (ग्वालियर) अस्ति, यत्र रामपुर-हाउंड्, मुधोल-हाउंड् तथा अन्ये भारतीय-श्वान-प्रकाराः विशेषरूपेण पोष्यन्ते। एतेषां श्वानानां कृते प्रशिक्षण-निर्देशिकाः अपि संशोधिताः, यथा तेषां विशेष-क्षमताः प्रकाश्येरन्।
प्रधानमन्त्रिणा उक्तं यत् “भारतीय-जातीय-श्वानाः स्व-परिवेशे परिस्थित्यां च शीघ्रं अनुकूल्यन्ते।”
अस्मिन् एव सन्दर्भे तेन उक्तं यत् सीआरपीएफस्य बेंगलुरु-स्थित डॉग् ब्रीडिंग् एण्ड् ट्रेनिंग् स्कूल् मध्ये मोंग्रेल्, मुधोल्-हाउंड्, कोम्बै, पाण्डिकोन इत्यादयः भारतीय-जातीय-श्वानाः प्रशिक्ष्यन्ते। गतवर्षे लखनौ-नगरे आयोज्यमाने ऑल् इंडिया पुलिस ड्यूटी मीट् इत्यस्मिन् मुधोल्-हाउंड्-नाम्ना “रिया” इति श्वाना विदेशीय-जातीय-श्वानान् पराजित्य प्रथमं पुरस्कारं प्राप्तवती।
----
हिन्दुस्थान समाचार