अमितशाहः अद्य मुम्बईनगर्यां, चर्चगेट इत्यस्य समीपे महाराष्ट्रभाजपाकार्यालयस्य आधारशिलां स्थापयिष्यति
नवदेहली, 27 अक्टुबरमासः (हि.स.)। केन्द्रगृहसहकारितामन्त्री भारतीयजनतापक्षस्य शीर्षनेता अमितशाहः च अद्य राष्ट्रस्य आर्थिकराजधानी मुम्बईनगर्यां दलस्य कार्यक्रमे सहभागी भविष्यति। अस्मिन् अवसरे महाराष्ट्रभाजपायाः नूतनकार्यालयस्य आधारशिलास्थापनं भविष्यत
अमित शाह के आज के मुंबई दौरे के कार्यक्रम को भाजपा ने अपने एक्स हैंडल पर साझा किया है।


नवदेहली, 27 अक्टुबरमासः (हि.स.)। केन्द्रगृहसहकारितामन्त्री भारतीयजनतापक्षस्य शीर्षनेता अमितशाहः च अद्य राष्ट्रस्य आर्थिकराजधानी मुम्बईनगर्यां दलस्य कार्यक्रमे सहभागी भविष्यति। अस्मिन् अवसरे महाराष्ट्रभाजपायाः नूतनकार्यालयस्य आधारशिलास्थापनं भविष्यति। एषा सूचना भाजपा-दलेन एक्स-हैंडल् इत्यत्र प्रकाशिताऽस्ति।

भाजपा-दलस्य एक्स-हैंडल्-पोस्ट् अनुसारं अमितशाहः मध्याह्ने 1ः25 वादने‌ ऐतिहासिके चर्च द्वार-स्थले ब्लॉक्-नम्बर-नवं आगमिष्यति। सः तत्र वसानी-चैम्बर्स् नामकस्थाने महाराष्ट्र-भारतीयजनतापक्षस्य नूतनकार्यालयस्य भूमिपूजनं कृत्वा निर्माणकार्यम् आरपयिष्यति।

उल्लेखनीयं यत् गतवर्षे अगस्त्-मासस्य 24 दिवसे दलस्य राष्ट्रीयाध्यक्षः जेपी नड्डा पणजी (गोवा) नगरे भारतीयजनतापक्षस्य शिलान्यासकार्यक्रमे प्रेषिते विडियोसन्देशे अवदत् यत् संगठनम् अखिलदेशे 768 कार्यालयानि उद्घाटयितुमं लक्ष्यं निर्धारितवान्।

विशेषता अस्ति यत् तेषु 563 कार्यालयानि पूर्णानि जातानि सन्ति, 96 कार्यालयेषु निर्माणकार्यं प्रवर्तमानम् अस्ति। तेषामपि निर्माणं शीघ्रं सम्पाद्यिष्यते। दलस्य लक्ष्यं अस्ति यत् प्रत्येकस्मिन् जनपदे एकं कार्यालयं, प्रत्येकराजधान्यां च मुख्यालयं स्थापयेत्।

हिन्दुस्थान समाचार / अंशु गुप्ता