रायपुरम् : मुख्यमंत्री  सायोऽद्य कोरबा-जशपुर जिलयोः भ्रमणे
रायपुरम् 27 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसयः अद्य सोमवासरे कोरबा-जशपुर-जिलयोः प्रवासे भविष्यति। अद्य मध्याह्ने १.३० वादने मुख्यमन्त्री रायपुरनगरस्थात् पुलिस-ग्राउण्ड्-हेलिपैड् इत्यस्मात् प्रस्थितः भविष्यति। प्रायः २.२
मुख्यमंत्री विष्णु देव साय


रायपुरम् 27 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसयः अद्य सोमवासरे कोरबा-जशपुर-जिलयोः प्रवासे भविष्यति। अद्य मध्याह्ने १.३० वादने मुख्यमन्त्री रायपुरनगरस्थात् पुलिस-ग्राउण्ड्-हेलिपैड् इत्यस्मात् प्रस्थितः भविष्यति। प्रायः २.२० वादने सः कोरबा-नगरस्य सीएसईबी-फुटबॉल-क्रीडांगण-उदग्रविमानस्थानके आगत्य अग्रसेन-भवने आयोजिते कार्यक्रमे सहभागी भविष्यति। तत्र २.३० तः ३.१५ पर्यन्तं पूर्वनियतासु क्रियासु भागं ग्रहीष्यति।

कोरबा-दर्शनानन्तरं मुख्यमन्त्री जशपुर-जनपदस्य दुलदुला-ग्रामं गमिष्यति, यत्र सः ४.२५ तः ५.२५ पर्यन्तं छठ-महापर्वे छठ-घाटे सूर्योपासना कृत्वा भक्तैः सह साक्षात् संवादं करिष्यति।

सन्ध्याकाले ६.१५ वादने मुख्यमन्त्रिणः निजनिवासं बगिया-कांसाबेलं प्रति आगमनं निश्चितम् अस्ति, यत्र सः रात्रौ विश्रामं करिष्यति।

अयं सम्पूर्णः प्रवासः धार्मिक-आस्थायै, प्रादेशिक-विकासाय, जनसम्पर्काय च समर्पितः भविष्यति।

हिन्दुस्थान समाचार