इतिहासपत्रेषु 28 अक्तुबरदिनाङ्कः — २०११ तमे वर्षे विख्यातव्यङ्ग्यलेखकः श्रीलालशुक्लः दिवंगतः
हिन्दीसाहित्यजगति प्रसिद्धः व्यङ्ग्यकारः श्रीलालशुक्लः २०११ तमे वर्षे निधनं प्राप्तवान्। सः स्वस्य तीक्ष्णव्यङ्ग्येन सामाजिकयथार्थे च आधारितलेखनस्य कृते प्रसिद्धः आसीत्। तस्य प्रसिद्धा कृति: ‘रागदरबारी’ इति नाम्नी तं सर्वगृहेषु लोकप्रियं कृतवती, ह
विख्यात साहित्यकार श्रीलाल शुक्ल


हिन्दीसाहित्यजगति प्रसिद्धः व्यङ्ग्यकारः श्रीलालशुक्लः २०११ तमे वर्षे निधनं प्राप्तवान्। सः स्वस्य तीक्ष्णव्यङ्ग्येन सामाजिकयथार्थे च आधारितलेखनस्य कृते प्रसिद्धः आसीत्। तस्य प्रसिद्धा कृति: ‘रागदरबारी’ इति नाम्नी तं सर्वगृहेषु लोकप्रियं कृतवती, हिन्दीभाषायां व्यङ्ग्यविधायाः नूतनां प्रतिष्ठां दत्तवती च। अस्मिन् उपन्यासे स्वातन्त्र्योत्तरभारते ग्राम्यजीवनस्य, नौकरशाह्याः, सामाजिकव्यवस्थायाश्च तीक्ष्णं व्यङ्ग्यं कृतवान्।

श्रीलालशुक्लेन स्वलेखने राजनीतेः, नौकरशाह्याः, ग्राम्यभारते च सच्चरित्राणि हास्यव्यङ्ग्याभ्यां प्रकाशितानि। तस्य अन्याः प्रमुखाः कृत्तयः — सीमाएँ टूटती हैं, मकान, पहला पड़ाव इति च।

साहित्यक्षेत्रे तस्य योगदानाय तेन साहित्य-अकादमीपुरस्कारः, भारतीयज्ञानपीठपुरस्कारः, पद्मभूषणपुरस्कारः च लब्धाः। श्रीलालशुक्लस्य निधनं हिन्दीसाहित्यस्य अपूरणीयहानिः मन्यते।

तस्य उत्कृष्टयोगदानाय तस्मै साहित्य-अकादमीपुरस्कारः (१९६९), भारतीयज्ञानपीठपुरस्कारः (२००९), पद्मभूषणः (२००८) च प्रदत्ताः। तस्य लेखनं समाजस्य विषमत्वानि, राजनैतिककपटं, मानवीयदुर्बलताः च प्रकाशितवान्।

तस्य रचनाः अद्यापि सामाजिकयथार्थस्य दर्पणरूपेण स्वीकृताः। श्रीलालशुक्लेन प्रमाणीकृतम् यत् व्यङ्ग्यं केवलं हास्यार्थं न भवति, किं तु चिन्तनाय प्रेरकं साधनं च अस्ति।

महत्वपूर्णाः घटनाचक्राः

१८८६ — अमेरिकादेशस्य तत्कालीनराष्ट्रपतिः ग्रोवरक्लिवलैण्ड् इत्यनेन मैत्रीसङ्केतरूपेण फ्रान्सदेशात् प्राप्ता ‘स्टैच्यू ऑफ लिबर्टी’ नाम्नी मूर्तिः औपचारिकरूपेण उद्घाटिता।

१८९१ — जापानदेशे भूकम्पेन सप्तसहस्रत्रिशतं जनाः मृताः।

१९१८ — ऑस्ट्रियाहङ्गरीयोः विभाजनानन्तरं चेकोस्लोवाकियादेशः स्वतन्त्रः अभवत्।

१९५४ — अर्नेस्ट् हेमिंग्वे इत्यस्मै साहित्यस्य नोबेल्पुरस्कारः प्रदत्तः।

१९५५ — मिस्रदेशः सौदीअरबदेशश्च रक्षासन्धिं हस्ताक्षरितवन्तौ।

१९९८ — इंटरपोलसंस्थायाः सप्तषष्टितमे महासभासमाप्तौ अत्याधुनिकतन्त्रज्ञानस्य प्रयोगेन आतंकवादम् आधुनिकसङ्गठितापराधांश्च निवारयितुं नूतननीतिः प्रतिपादिता।

२००१ — जर्मनीदेशस्य चांसलरः गेरहार्डश्रोडरः भारतयात्रां कृतवान्।

२००१ — जापानदेशस्य प्रधानमन्त्रिणः जुनीशिरो कोअजुमेः विशेषदूतः योसितो मोरी भारतयात्रां कृतवान्।

२००४ — बीजिंग्नगरे चतुर्सहस्रवर्षप्राचीनानि समाधिस्थलानि प्राप्तानि। इराकदेशेन सह यूरोपीयसङ्घस्य परमाणुविषयकवार्ता विफलाभवत्।

२००९ — पाकिस्तानदेशस्य पेशावरनगरे विस्फोटेन ११७ जनाः मृताः, २१३ घातिताः।

२०१२ — सीरियादेशे संघर्षविरामस्य उल्लङ्घनं कृतम्, १२८ जनाः हताः।

२०१२ — जर्मनीदेशस्य सेबेस्टियन् वेत्तेल् इत्यस्मै २०१२ वर्षस्य फॉर्मूला वन इंडियन् ग्राँ प्री इति पुरस्कारः प्राप्तः।

जन्मानि।

१८८३ — मौरिस् गार्नियर् हैलेट् — भारतसर्वकारे गृहसचिवः।

१९५५ — बिल् गेट्स् — माइक्रोसॉफ्ट्संस्थापकः, वाशिंग्टननिवासी।

१९५८ — अशोकचह्वाणः — भारतीयराष्ट्रीयकाँग्रेसदले राजनीतिज्ञः।

१९६३ — उर्जितपटेलः — भारतीयरिज़र्वकोशस्य चतुर्विंशः अधिकारी।

१९३० — अञ्जानः — हिन्दीचित्रपटगीतकारः, ख्यातिशाली शायरः।

१८७१ — अतुलप्रसादसेनः — प्रसिद्धविधिवेत्ता, शिक्षाप्रेमी, रचनाकारः, बाङ्ग्लाकविः सङ्गीतकारश्च।

१८६७ — भगिनी निवेदिता — स्वामीविवेकानन्दस्य सहयोगिनी, शिक्षिका, समाजसेविका च।

निधनानि।

२०२१ — माधवनकृष्णन्नायरः — विख्यातः कर्करोगविशेषज्ञः, क्षेत्रीयकर्करोगकेन्द्रस्य संस्थापकनिदेशकः।

२०१६ — शशिकलाकाकोदकरः — गोवायाः द्वितीयमुख्यमन्त्री।

२०१३ — राजेन्द्रयादवः — प्रसिद्धः उपन्यासकारः।

२०११ — श्रीलालशुक्लः — व्यङ्ग्यलेखनस्य विख्यातः साहित्यकारः।

१९०० — मैक्समूलरः — प्रसिद्धः जर्मनदेशीयः संस्कृतविदः, प्राच्यविद्याविशारदः, लेखकः, भाषाशास्त्री च।

हिन्दुस्थान समाचार / अंशु गुप्ता