Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 27 अक्टूबरमासः (हि.स.)।ऑस्ट्रेलियादेशस्य तीव्रगोलन्दकः पैट् कमिन्स् नामकः क्रीडकः आगामिमासे पर्थ्–नगरे आयोज्यमानस्य प्रथमस्य एशेज्–परीक्षामेळस्य कृते स्वस्थः न भविष्यति, तस्य स्थाने स्टीव् स्मिथ् नाम कप्तानः भविष्यति इति क्रिकेट् ऑस्ट्रेलिया (सी.ए.) इत्यनेन सोमवासरे निवेदितम्।
कमिन्स् नामकः क्रीडकः जुलै–मासात् एव कटिप्रदेशस्थदौर्बल्यकारणात् बहिर्गतः आसीत्, चतुर्विंशतिः नवम्बरात् आरभ्यमाणे इंग्लण्ड्–विरुद्धस्य श्रृंखलायाः प्रथमखेलने तस्य सहभागित्वे पूर्वमेव सन्देहः आसीत्।
सी.ए. संस्थया प्रकाशिते निवेदने उक्तं यत् कमिन्स् पुनः धावनं आरब्धवान्, शीघ्रमेव सः गोलन्दनं अपि आरप्स्यति इति। अतः एषा अपि आशा जाताः यत् द्वात्रिंशद्वर्षीयः अयं क्रीडकः चतुर्थे दिसम्बरात् ब्रिस्बेन–नगरे आयोज्यमाने द्वितीय–दिनरात्र–परीक्षाखेलने भागं ग्रहीतुं स्वस्थः भविष्यति।
यद्यपि श्रृंखलायाः कृते दलस्य औपचारिकघोषणा अद्यापि न जाता, तथापि पर्थ्–क्रीडाङ्गणे जोश् हेज़लवुड्, मिशेल् स्टार्क् च इत्येताभ्यां सह स्कॉट् बोलण्ड् इति नामकस्य गोलन्दकस्य खेलनं प्रायः निश्चितम्।
ऑस्ट्रेलियायां तीव्रगोलन्दनविभागे श्रेष्ठगोलन्दकानाम् अस्तित्वात् बोलण्ड्–नामकः क्रीडकः गतवर्षेषु परीक्षास्तरे अधिकं अवसरं न प्राप्तवान्, किन्तु यदा यदा तस्मै अवसरः लब्धः, तदा तदा उत्तमं प्रदर्शनं कृतवान्।
एषः षट्त्रिंशद्वर्षीयः क्रीडकः ऑस्ट्रेलियायाः कठोरपृष्ठेषु विशेषं प्रभावशाली अस्ति; सः स्वेषु गतचतुर्दश–परीक्षामेळेषु १६.५३ इत्येवं सरासरीविकेटदरात् ६२ विकेटान् प्राप्तवान्।
कमिन्स् नामकः २०१७–१८ श्रृंखलायाम् इंग्लण्ड्–विरुद्धे स्वस्य प्रथम–परीक्षानन्तरं यावत् निरन्तरं एशेज्–परीक्षासु ऑस्ट्रेलियादलस्य सदस्यः आसीत्, सः दलं प्रथमं विजयं प्रापयित्वा पुनः तद्रक्षणे अपि सहायं कृतवान्।
स्मिथ् नामकः, यः २०१८ तमे वर्षे न्यूलैण्ड्स् बॉल्–टैम्परिङ्–काण्डे सम्मिलितत्वात् कप्तानपदात् अपसारितः आसीत्, स्वस्य पुनर्वासानन्तरं कमिन्स्–अभावे षट् वारं दलस्य नेतृत्वं कृतवान् इति।
---------------
हिन्दुस्थान समाचार