पूर्व राष्ट्रपतिः रामनाथकोविंदः कैंची धाम्नि अकरोत् बाबा नीब कराैरीदर्शनम्
नैनीतालम्, 27 अक्टूबरमासः (हि.स.)।पूर्वराष्ट्रपतिः रामनाथः कोविन्दः नैनीतालजनपदे स्थिते विश्वप्रसिद्धे कैञ्चीधामे बाबा नीबकरौरीमहात्मनः दर्शनं कृतवान्। दर्शनानन्तरं पूर्वराष्ट्रपतिः कोविन्दः तत्रस्थं राजभवनं प्राप्तवान्, यत्र उत्तराखण्डराज्यपालः से
कैंची धाम में बाबा नीब करौरी के दर्शनों के दौरान उनके बारे में जानकारी लेते पूर्व राष्ट्रपति रामनाथ कोविंद।


नैनीताल राजभवन पहुंचने पर राज्यपाल का अभिनंदन करतीं पुलिस महानिरीक्षक रिद्धिम अग्रवाल।


नैनीतालम्, 27 अक्टूबरमासः (हि.स.)।पूर्वराष्ट्रपतिः रामनाथः कोविन्दः नैनीतालजनपदे स्थिते विश्वप्रसिद्धे कैञ्चीधामे बाबा नीबकरौरीमहात्मनः दर्शनं कृतवान्। दर्शनानन्तरं पूर्वराष्ट्रपतिः कोविन्दः तत्रस्थं राजभवनं प्राप्तवान्, यत्र उत्तराखण्डराज्यपालः सेवानिवृत्तः लेफ्टिनेन्ट् जनरल् गुरमीत् सिंहः तस्य स्वागतं कृतवान्।

सोमवासरे पूर्वराष्ट्रपतिः रामनाथः कोविन्दः त्रिदिवसीये प्रवासे नैनीतालं प्राप्तवान्। कोविन्देन कैञ्चीधामं गत्वा बाबा नीबकरौरीमहात्मानः दर्शनं कृतम्। तस्य एषः दौरः धार्मिकदृष्ट्या, सांस्कृतिकदृष्ट्या, प्रशासनिकदृष्ट्या च विशेषमहत्त्वपूर्णः मन्यते।

कैञ्चीधामात् सः नैनीतालराजभवनं प्रति गतवान्, यत्र उत्तराखण्डराज्यपालः सेवानिवृत्तः लेफ्टिनेन्ट् जनरल् गुरमीत् सिंहः तस्य आदरपूर्वकं स्वागतं कृतवान्। तस्मिन् अवसरि राज्यपालस्य सचिवः रविनाथः रामन्, कुमाऊँमण्डलस्य आयुक्तः, मुख्यमन्त्रिणः सचिवश्च दीपकरावतः, पुलिसमहानिरीक्षकः (कुमाऊँ) रिद्धिम अग्रवालः, अपरसचिवा रीना जोशी, जिलाधिकारी ललितमोहनः रयालः, वरिष्ठपुलिसअधीक्षकः प्रह्लादनारायणः मीणा, परिसहायः अमितः श्रीवास्तवः, मेजरः सुमितकुमारः च उपस्थिताः आसन्।

पूर्वराष्ट्रपतिः अल्मोड़ाजनपदस्य द्वाराहाटक्षेत्रे स्थितं दुग्धेश्वरक्षेत्रं प्रति गन्तुं नियोजितः अस्ति। तस्य भ्रमणकार्यक्रमस्य परिप्रेक्ष्ये उत्तराखण्डराज्यपालः सेवानिवृत्तः लेफ्टिनेन्ट् जनरल् गुरमीत् सिंहः अपि सोमवासरे द्विदिवसीये कार्यक्रमे नैनीतालं प्राप्तवान्।

नैनीतालराजभवने कुमाऊँमण्डलस्य आयुक्तः तथा मुख्यमन्त्रिणः सचिवः दीपकरावतः, पुलिसमहानिरीक्षकः (कुमाऊँ) रिद्धिम अग्रवालः, जिलाधिकारी ललितमोहनः रयालः, वरिष्ठपुलिसअधीक्षकः प्रह्लादनारायणः मीणा च राज्यपालस्य स्वागतं कृतवन्तः।

तस्मिन् सन्दर्भे जनपदस्य अधिकारिणः राज्यपालं प्रति जनपदस्य विकासयोजनानां, पर्यटनस्य, शिक्षायाः, स्वास्थ्यसंबद्धक्रियाकलापनां च विषये सूचना प्रदत्तवन्तः। राज्यपालेन जनहितसम्बद्धानां परियोजनानां प्रगतौ सन्तोषः व्यक्तः कृतः तथा अधिकारिणः जनसंपर्कं सुदृढीकृत्य राज्यहिताय कर्मणि प्रवर्तितुं आहूताः।

---------------

हिन्दुस्थान समाचार