बाध्यतातः मशरूम यावत् — अधुना सीएससी संचालकः, 'लक्षपति दीदी' संजाता सारंगपुर्याः मधु कंवर इति
धमतरी, 27 अक्टूबरमासः (हि.स.)।यदा सारंगपुरी-पञ्चायत्याः मधु-कंवर-नामिका नारी परैः कृषिक्षेत्रेषु श्रमं कृत्वा स्वपरिवारस्य पालन-पोषणं कुर्वन्ती आस, तदा तस्या आर्थिकजीवनं कठिनमासीत्। अद्य तु स्वपरिश्रमेन योजनानां च सम्यक् उपयोगेन सा “लक्षपति-दीदी” इ
सारंगपुरी पंचायत की मधु कंवर दुकान में खड़ी हुई।


धमतरी, 27 अक्टूबरमासः (हि.स.)।यदा सारंगपुरी-पञ्चायत्याः मधु-कंवर-नामिका नारी परैः कृषिक्षेत्रेषु श्रमं कृत्वा स्वपरिवारस्य पालन-पोषणं कुर्वन्ती आस, तदा तस्या आर्थिकजीवनं कठिनमासीत्। अद्य तु स्वपरिश्रमेन योजनानां च सम्यक् उपयोगेन सा “लक्षपति-दीदी” इत्याख्यया प्रसिद्धा जाता।

राष्ट्रिय-ग्रामीण-आजीविकान्दोलनेन संयोजिता भूत्वा तस्या आर्थिक-सामाजिकयोः अवस्थयोः उल्लेखनीयः परिवर्तनः जातः।

डिजिटल्-इण्डिया-योजनान्तर्गतं सा स्वग्रामे कॉमन्-सर्विस्-सेन्टर् (CSC) इति एकं केन्द्रं उद्घाट्य, ग्रामजनान् प्रति आय-प्रमाणपत्रं, जाति-निवास-प्रमाणपत्रे, विवाह-पञ्जीकरणं, विद्युत्-शुल्क-भुगतानं, आधार-सेवा, श्रम-कार्ड्, आयुष्मान्-कार्ड् इत्यादि ई-शासन-सुविधाः लघु-मूल्येन प्रददाति। अस्य केन्द्रस्य संचालनतः तस्याः मासिकं १०-१२ सहस्र-रूप्यकाणां स्थिरम् आमदनं भवति, येन समीपग्रामवासिनः अपि ग्रामे एव सर्वा सरकारी-सेवाः लभन्ते।

मधु उक्तवती यत्, पूर्वं तस्याः पारिवारिकं आर्थिकं च स्थिति-दुर्बला आसीत्, येन पुत्राणां शिक्षोपाधि अपि दुष्करा जाता। “जय माँ कर्मा” इत्याख्ये महिला-स्वसहायता-समूहे संयोजिता भूत्वा सा धानस्य क्रय-विक्रयम्, छत्रक-उत्पादनं, अन्यांश्च स्वावलम्बन-उद्योगान् आरब्धवती। समूहस्य साहाय्येन प्राप्तं व्यवसायिक-ऋणं गृह्य सा गृहात् एव CSC-केंद्रं प्रारब्धवती, यः अधुना तस्याः स्वपरिचयः अभवत्।

मधु-समूहस्य महिलाः अपि मोमबत्ती-निर्माणम्, केक्-पाककला, मत्स्यपालनम्, छत्रक-उत्पादनम्, बैंक्-सखी-कार्याणि च कुर्वन्ति। एतेन केवलं आयवृद्धिः न जाताऽस्ति, अपि तु आत्मनिर्भरता-भावना अपि दृढा अभवत्।

मुख्यमन्त्रिणः विष्णुदेवसायस्य-नेतृत्वे चालिताः योजनाः ग्राम्य-प्रतिभानां विकासाय उपकरोति, मधु-कंवर-नाम्नी नारी च तासां योजनानां साक्षात् प्रेरणादायकं उदाहरणं जातम्।

हिन्दुस्थान समाचार