महाभारतकालीनस्य राज्ञः द्रोपदस्य दूर्गावशेषाणाम् अबैध खननं कुर्वते माफियाजनाः
फर्रुखाबादम्,27 अक्टूबरमासः (हि. स.)।उत्तरप्रदेशराज्ये फर्रुखाबादजिलान्तर्गतं कम्पिलनगरं नाम प्रसिद्धं अस्ति, यत्र महाभारतकाले पाञ्चालदेशस्य राजधानी आसीत्। तत्रैव राजा द्रुपदः राज्यं कृतवान् इति इतिहासे प्रसिद्धम् अस्ति। तस्मिन्नेव नगरे द्रौपद्याः
महाभारतकालीनस्य राज्ञः द्रोपदस्य दूर्गावशेषाणाम् अबैध खननं कुर्वते माफियाजनाः


फर्रुखाबादम्,27 अक्टूबरमासः (हि. स.)।उत्तरप्रदेशराज्ये फर्रुखाबादजिलान्तर्गतं कम्पिलनगरं नाम प्रसिद्धं अस्ति, यत्र महाभारतकाले पाञ्चालदेशस्य राजधानी आसीत्। तत्रैव राजा द्रुपदः राज्यं कृतवान् इति इतिहासे प्रसिद्धम् अस्ति। तस्मिन्नेव नगरे द्रौपद्याः स्वयँवरः अभवत् इति अपि पुराणेषु वर्णितम्। पाण्डवाः अपि अज्ञातवासकाले तस्मिन्नेव द्रुपदकिल्ले अधिकं कालं निनायुः। अद्यापि तस्य किल्लस्य भग्नावशेषाः महाभारतकालेन सह संबद्धं स्मृतिचिह्नं वहन्ति, येन कारणेन जगतः विविधदेशेभ्यः पर्यटकाः तद् दर्शनार्थं आगच्छन्ति।

अद्य तु तत्र खननमाफियाः अवैधखननक्रियायां प्रवृत्ताः सन्ति, ये महाभारतकालेन सम्बद्धं इतिहासं विनाशयितुं यत्नं कुर्वन्ति। आश्चर्यं तु यत्, एतेषां कृत्येषु क्षेत्रीयपुलिस् मौनावस्था स्थिता अस्ति। रात्रौ दिवसं च एते खननं कृत्वा दूर्गस्य स्वरूपं नाशयन्ति।

एतस्मिन्नन्तरे खननकाले भगवतः बुद्धस्य मूर्तिः भूमेः निःसृता। तां दृष्ट्वा बौद्धअनुयायिनः कोलाहलं कृतवन्तः। ततः त्वरितम् आगत्य पुलिस् विभागः मूर्तिं सुरक्षितरूपेण थाने स्थापितवान्, यत्र बुद्धभक्तानां संमर्दः एकत्रीजातः

इतिहासकारः डॉ॰ रामकृष्णराजपूत् अवदन् यत्— यः सरोवरः अस्ति, यस्मिन् अर्जुनः जलप्रतिबिम्बे दृष्ट्वा मत्स्यनेत्रं लक्षीकृत्य बाणं क्षिप्य द्रौपदीं वरयामास, स एव अद्यापि “द्रौपदीकुण्ड” इति प्रसिद्धः।

महाभारतकाले कम्पिलनगरं पाञ्चालराजधानीरूपेण प्रतिष्ठितम् आसीत्। तस्मात् राजा द्रुपदस्य किल्लस्य एते भग्नावशेषाः पुरातत्वधरोहरत्वेन अतीव मूल्यवन्ताः सन्ति। तेषां खननं महापापं च धर्मविरुद्धं च कार्यं भवति। शासनं प्रशासनं च अस्मिन् अवैधखनने तत्क्षणं प्रतिबन्धं स्थापयेत् इति आह्वानं कृतम्।

अपरपुलिसाधिकारी श्रीमान् संजयसिंहः उक्तवान्— “अस्माकं समीपे एतत् विषयस्य सूचना अद्य पर्यन्तं न आगता। किन्तु प्रकरणस्य अनुसन्धानं कृत्वा दोषिनः खननमाफियाः प्रति कठोरं दण्डं विधास्यामः।”

---------------

हिन्दुस्थान समाचार