Enter your Email Address to subscribe to our newsletters

जयपुरम्, २७ अक्टूबरमासः (हि.स.)।
राजस्थानसहितं भारतस्य लोकसंस्कृतिं प्रति समर्पितायाः नूतनायाः सङ्गीतसंस्थायाः — “स्वरमाधुरी मल्टीमीडिया एल्.एल्.पी.” इत्यस्याः — शुभारम्भः प्रसिद्धराजस्थानीलोकगायिकायाः सीमा मिश्रा इत्यस्याः सुमधुरभक्तिगीतानां श्रव्य-दृश्यरूपेण लोकार्पणेन सह भविष्यति।
संस्थायाः निर्देशिका सीमा मिश्रा उक्तवती यत् “अस्माकं अस्याः सङ्गीतयात्रायाः प्रधानं लक्ष्यं राजस्थानं सहितं भारतस्य लोकगीतान्, सङ्गीतं, नृत्यं च, अस्माकं लोककलाकाराणां स्वरं च, अस्माकं परम्पराणां शोभां च प्रत्येकगृहे प्रतिपादयितुम् अस्ति।”
सा उक्तवती यत् “अस्माकं लोककलाकाराणां प्रतिभां, अस्माकं च संस्कृतेः वास्तविकं स्वरूपं देशे विदेशे च गरिमया प्रेषयितुं यः नूतनः प्रयत्नः स एव ‘स्वरमाधुरी’ इति नाम्ना प्रसिद्धः। तत्सिद्ध्यर्थं अहं नूतनां सङ्गीतसंस्थां — ‘स्वरमाधुरी मल्टीमीडिया एल्.एल्.पी.’ — इत्याख्यां संस्थां 3 नवम्बरदिनाङ्के सोमवासरे उद्घाटयिष्यामि।”
एषः कार्यक्रमः राजस्थान-अन्ताराष्ट्रिय-केंद्रस्य झालनाडूंगरीस्थे मिनी-आडिटोरियम्–२ इत्यस्मिन् सोमवासरे सायं काले भविष्यति।
कार्यक्रमस्य मुख्यातिथिः भविष्यन्ति राजस्थानीभाषायाः साहित्यस्य लोककलायाः च संस्कृतेः संवाहकः, संवर्धकः, वरिष्ठशिक्षाविद्, चलकोई-फाउण्डेशन इत्यस्य संस्थापकाध्यक्षश्च श्रीराजवीरसिंहः चलकोई।
उद्घाटनं करिष्यन्ति पद्मश्री उस्ताद् डॉ. अहमद् हुसैन, पद्मश्री उस्ताद् डॉ. मोहम्मद् हुसैन, च मुंबईनगरस्थः चार्टर्ड्-अकाउण्टण्ट् कमल् पोद्दार्।
संस्थायाः अन्यनिर्देशकः शिवविनायकशर्मा उक्तवान् यत् “अस्माकं मुख्यं लक्ष्यं राजस्थानं सहित्य भारतस्य लोकसंस्कृतेः, गीतसङ्गीतयोः च मूलस्वरूपं न परित्यज्य, आधुनिकतन्त्रज्ञानस्य साहाय्येन देशे विदेशे च प्रसारयितुम् अस्ति। स्वरमाधुरी नाम्ना नूतनानां उदीयमानानां कलाकाराणां प्रतिभायाः परिचयं दास्यति तथा भारतस्य लोकसंस्कृतेः मूलेषु बलं समावेशयिष्यति।”
हिन्दुस्थान समाचार / अंशु गुप्ता