Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 27 अक्टूबरमासः (हि.स.)। 1972 तमे वर्षे स्थापितस्य कुमायून-विश्वविद्यालयस्य दीक्षान्त-समारोहः 4 नवम्बर् दिनाङ्के राष्ट्रपतेः द्रौपदी मुर्मोः आगमनं प्रस्तावितम् अस्ति। यदि सा राष्ट्रपतिः अस्मिन् समारोहे सम्मिलिता भविष्यति तर्हि विश्वविद्यालयस्य त्रिपञ्चाशद् वर्षाणां इतिहासे एतादृशः अवसरः प्रथमवारं भविष्यति।
विश्वविद्यालयस्य कुलपति: प्रोफेसरः दीवान् रावत् इत्यनेन सोमवासरे पत्रकार-सभायाम् उक्तम् यत् कुमायून-विश्वविद्यालयस्य दीक्षान्त-समारोहे राष्ट्रपतिः द्रौपदी मुर्मुः 4 नवम्बर् दिनाङ्के अपराह्णे तृतीय-प्रहरसमये आगमिष्यन्ति इति कार्यक्रमः प्राप्तः अस्ति। तया सह एव प्रदेशस्य राज्यपालः अवकाशप्राप्तः लेफ्टिनेंट्-जनरल् गुरमीत् सिंहः, मुख्यमंत्री पुष्कर सिंह धामिः, उच्च-शिक्षा-मन्त्री डॉ. धनसिंह रावत् च अपि कार्यक्रमे उपस्थिताः भविष्यन्ति। एषः समारोहः भव्यरूपेण आयोजनं कर्तुं विश्वविद्यालयस्य सम्पूर्ण-टीमः तत्परः अस्ति।
प्रो. रावत् अवदन् यत् विश्वविद्यालयः स्वइतिहासे प्रथमवारं सन् 2024 तमे सत्रे उत्तीर्णान् सर्वान् विद्यार्थिनः तेषां डिग्र्यः आवेदनं विना एव गृहेषु प्रेषितवान्। अधुना सन् 2025 तमे सत्रे उत्तीर्णानां षोडश-सहस्राधिकानां विद्यार्थिनां डिग्र्यः मुद्रणार्थं प्रेषिताः सन्ति। दीक्षान्त-समारोहात् द्विमासाभ्यन्तरे सर्वेभ्यः विद्यार्थिभ्यः तेषां डिग्र्यः गृहेषु प्रेषिताः भविष्यन्ति।
समारोहे अर्थशास्त्र-विषये च हिन्दी-विषये च त्रयः डी.लिट् उपाधयः सहितं एकद्वात्रिंशताधिकद्विशतं (अर्थात् 234) शोधार्थिभ्यः उपाधयः च नवति पदकाः च प्रदास्यन्ते। पदक-प्राप्तेषु छात्राणां षष्टिः प्रतिशतं भागः अस्ति। अस्मिन् वर्षे मानद-उपाधयः प्रदाने सम्भावना न्यूनाऽस्ति।
---------------
हिन्दुस्थान समाचार