Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 27 अक्टूबरमासः (हि.स.)।उपराज्यपालः मनोजसिन्हा नामकः सोमवासरे उक्तवान् यत् “राष्ट्रियशिक्षानीतेः कार्यान्वयनेन सह जम्मू-कश्मीरप्रदेशस्य शिक्षाव्यवस्थायाम् महान् परिवर्तनः सम्पद्यते, येन सर्वे सरकारीविद्यालयाः उल्लेखनीयं प्रगतिक्रमं प्राप्तवन्तः।
श्रीनगरे कोठीबागउच्चतरमाध्यमिकविद्यालये आयोजिते कार्यक्रमे उपराज्यपालः भाषमाणः अवदत्—यत् “राष्ट्रीयशिक्षानीतिः” शैक्षणिकपरिदृश्ये सकारात्मकं परिवर्तनं समावेशयति, यतः विद्यालयाः शनैः शनैः प्राचीनशिक्षणपद्धतेः त्यागं कृत्वा नूतनं छात्रकेन्द्रितदृष्टिकोणं स्वीकुर्वन्ति। तेन उक्तं यत् एनईपी इत्यस्य सफलकार्यान्वयनेन सरकारीविद्यालयानां कार्यक्षमता उल्लेखनीयतया वर्धते।
सिन्हामहोदयः अवदत्—सरकारः बुनियादीसंरचनायाः संवर्धनम्, शिक्षणपद्धतेः उन्नयनं, छात्राणां समग्रविकासस्य सुनिश्चितिकरणं च कृत्वा, सरकारीविद्यालयान् निजसंस्थाभ्यः तुल्यस्तरे स्थापयितुं दृढसंकल्पिता अस्ति। तेन उक्तं यत् केवलं शैक्षणिकप्रदर्शनम् एव न, अपितु बालकबालिकानां विविधप्रतिभाः अपि ज्ञातव्याः, पोषयितव्याश्च।
सः अवदत्—“अस्माभिः छात्राणां अन्तर्निहितप्रतिभां ज्ञात्वा तस्याः पोषणं करणीयम्। विद्यालयैः तेषां कौशलविकासे सहायं दातव्यम्, येन ते स्वचिन्तितक्षेत्रेषु उत्कृष्टतां प्राप्तुं शक्नुवन्ति।”
शिक्षायां बहुविषयकदृष्टिकोणस्य आवश्यकता विषये बलं दत्त्वा उपराज्यपालः उक्तवान्—“अद्य समयः आगतः यत् डिग्रीप्राप्तेः पारम्परिकमानसिकतां परित्यज्य छात्राणां बहुकौशलं, सृजनशीलतां, आलोचनात्मकचिन्तनक्षमतां च विकसितुं प्रयत्नः कर्तव्यः।”
जम्मू-कश्मीरप्रदेशे छात्राणां विशेषतः छात्राणीनां उपलब्धीनां विषये प्रकाशं कृत्वा सिन्हामहोदयः अवदत्—“अत्र कन्यकाः न केवलं शिक्षायां, अपितु सहपाठ्यगतक्रियासु अपि सततं उत्कृष्टं प्रदर्शनं कुर्वन्ति। ते असामान्यं कार्यं कुर्वन्त्यः राष्ट्रविकासे योगदानं ददाति, अनेकेषां कृते प्रेरणास्रोतः अभवन्ति।”
अन्ते उपराज्यपालः पुनरुक्तवान्—“सर्वकारः नवयुवप्रतिभानां पोषणाय, ताञ्च भविष्योदयस्य चुनौतिषु आत्मविश्वासेन स्थितुं सज्जयितुं च, शैक्षिकव्यवस्थां सततं सुदृढां करिष्यति।”
हिन्दुस्थान समाचार