Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 27 अक्टूबरमासः (हि.स.)। मध्यप्रदेशराज्यस्य उज्जयिनी–नगरे स्थितस्य विश्वप्रसिद्धस्य ज्योतिर्लिङ्गस्य श्रीमहाकालेश्वरस्य अस्य वर्षस्य कार्तिक–अगहनमासयोः प्रथमयात्रा अद्य (सोमवासरे) निर्गमिष्यति। अस्यां सवार्याम् विशेषत्वेन एतद्वर्षं श्रीमहाकालमन्दिर–प्रबन्धसमितेः स्वकीयः वाद्यदलः (बैण्ड्) अपि सम्मिलितो भविष्यति। शोभायात्रा परम्परागतमार्गैः गत्वा पुनः मन्दिरं प्रतिनिवर्तिष्यते।
सोमवासरस्य अपराह्णे चतुर्थवादने कोटितीर्थकुण्डस्य समीपे सभामण्डपे श्रीमहाकालस्य पूजनं कृत्वा रजतपालक्यां मुखारविन्दं विराजयिष्यन्ति। ततः मन्दिरस्य मुख्यद्वारे सशस्त्र–सलाम्याः अनन्तरं सवारी कोट–मोहल्ला–चौराहं, गुदरीं, बक्षी–बाजारं, कहारवाटीं गत्वा रामघाटं प्राप्स्यति। तत्रा माता शिप्रा–देव्याः तथा श्रीमहाकालस्य पूजनं, अभिषेकं कृत्वा शोभायात्रा पुनः मन्दिराय प्रतिनिवर्तिष्यते।
वापसीमार्गे शोभायात्रा रामानुज–कोटं, मोढ–धर्मशालां, कार्तिक–चौकं, खाती–मन्दिरं, सत्यनारायण–मन्दिरं, ढाबा–रोडं, टङ्की–चौकं, छत्री–चौकं, गोपाल–मन्दिरं, पटनी–बाजारं, गुदरीं, कोट–मोहल्ला–चौराहं च गत्वा मन्दिरं प्राप्स्यति। सायंकाले आरत्याः पूर्वं सवारी मन्दिरे आगमिष्यति।
अस्यां सवार्याम् अद्य प्रथमवारं श्रीमहाकालमन्दिर–प्रबन्धसमितेः स्वकीयः त्रिंशद्भिः सदस्यैः संयुतः वाद्यदलः अपि भागं ग्रहीष्यति। स वाद्यदलः श्रद्धालूनां आकर्षणस्य केन्द्रं भविष्यति, यत्र सदस्याः विविधानि वाद्ययन्त्राणि वादयन्तः भक्तिगीतानि च प्रस्तास्यन्ति। परम्परानुसारं सवार्याः अग्रे अश्वारोहिदलः, आरक्षकवाद्यदलः, सशस्त्र–आरक्षकदलस्य मार्च–पास्ट् च भविष्यति। भजनमण्डलीनां सम्मिलनाय अपि अनुमतिः दत्ता अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता