Enter your Email Address to subscribe to our newsletters

मुंबई, 27 अक्टूबरमासः (हि.स.)।केन्द्रीयगृहसहकारितामन्त्री अमितशाहः सोमवासरे मुम्बईनगरे उक्तवान् यत्, “समुद्रीयक्षेत्रं भारतस्य शक्तेः, स्थैर्यस्य, सतततायाश्च प्रतिनिधिः अस्ति।” सः अवदत्—“एषः भारतस्य समुद्रीयक्षणः अस्ति, यः भारतस्य प्रवेशद्वारं विश्वस्य प्रवेशद्वारे परिवर्तयति।” प्रधानमन्त्रिणा नरेन्द्रमोदिना आरब्धाः गहनसंरचनात्मकसुधाराः कारणं भारतः अद्य वैश्विकसमुद्रीयमानचित्रे एकः उदयोन्मुखः शक्तिरूपेण प्रतिष्ठितः अस्ति।
अमितशाहेन सोमवासरे गोरेगावस्थिते नेस्कोप्रदर्शनीकेन्द्रे “भारतसमुद्रीयसप्ताहः (IMW) 2025” इत्यस्य उद्घाटनं कृतम्, यः जगतः महानतमस्य समुद्रीयसम्मेलनस्य प्रारम्भस्य प्रतीकः अस्ति। “महासागरेषु ऐक्यं, एकं समुद्रीयदृष्टिकोणम्” इति विषयेन आयोजिते अस्मिन् पञ्चदिनात्मककार्यक्रमे 85 राष्ट्रेभ्यः 1,00,000 अधिकाः प्रतिभागिनः सहभागिनो भवन्ति, येषां मध्ये 500 प्रदर्शकाः, 350 वक्तारः, 12 समवर्ती सम्मेलनानि प्रदर्शनानि च अन्तर्भवन्ति।
IMW 2025 भारतस्य समुद्रीयपुनरुत्थानं दर्शयति तथा च 2047 तमे वर्षे भारतं वैश्विकसमुद्रीयक्षेत्रे अग्रगण्यं राष्ट्रं कर्तुं तस्य दृष्टिं प्रकटयति।
गृह मन्त्रिणः कार्यक्रमे वक्तव्यं कृतम्—“भारतस्य रणनीतिकस्थितिः, विस्तीर्णा तटरेखा च तस्मै अद्वितीयं समुद्रीयलाभं ददाति। अस्माकं 11,000 किलोमीट्रपरिमिता तटरेखा, 13 तटीयराज्यानि, 23.7 लक्षवर्गकिलोमीट्रपर्यन्तः विशेषार्थिकक्षेत्रः च भारतं स्वाभाविकसमुद्रीयशक्तिं करोति। अस्माकं सकलघरेलूपादाने (GDP) 60 प्रतिशतं योगदानं तटीयराज्यानां भवति, तथा च प्रायः 80 कोटि जनाः स्वजीविकायै समुद्रं प्रति आश्रिताः सन्ति।”
हिन्दप्रशान्तप्रदेशे भारतस्य वर्धमानं नेतृत्वं निर्दिश्य केन्द्रीयगृहमन्त्री अवदत्—“भारतं स्वसमुद्रीयस्थितेः, लोकतान्त्रिकस्थैर्यस्य, नौसैनिकक्षमतायाश्च लाभं गृहीत्वा हिन्दप्रशान्तप्रदेशं वैश्विकदक्षिणं च मध्ये एकं सेतुरूपेण कार्यं करोति। एतेन विकासः, सुरक्षा, पर्यावरणीयप्रगति च प्रवर्ध्यते।”
शाहेन उक्तं यत्—“सरकारस्य समुद्रीयनीतिः, या प्रधानमन्त्रिणः मोदीवर्यस्य ‘सागर’ (क्षेत्रेषु सुरक्षा-विकासाय पारस्परिकसमग्रउन्नतिः) इति दृष्टिकोणे आधारिताऽस्ति, भारतस्य वैश्विकसमुद्रीयकेन्द्ररूपेण भूमिकां सुदृढीकर्तुं संकल्पिता अस्ति। भारतस्य समुद्रीयशक्ति प्रतिस्पर्धायां न, अपितु सहयोगे निहिता अस्ति। अस्माकं लक्ष्यं हरितसमुद्रीयभविष्यस्य निर्माणं, यः प्रकृतेः सह सामञ्जस्यं स्थापयन् विकासाय प्रेरणां ददाति।”
अस्मिन् अवसरि केन्द्रीयबन्दर, नौकायानजलमार्गमन्त्री सर्बानन्दः सोनौवालः उक्तवान् यत्, “समुद्रीयसप्ताहः 2025 भारतस्य समुद्रीययात्रायाः एकः महत्वपूर्णः परिवर्तकः बिन्दुः अस्ति। एषः शिखरसम्मेलनः नीतिसुधारैः, डिजिटलीकरणेन, अभूतपूर्वनिवेशैश्च भारतं जगतः प्रमुखसमुद्रीयशक्तिषु स्थापयितुं सरकारस्य दृढनिश्चयं प्रदर्शयति।”
सोनौवालः अवदत्—“भारतं सम्प्रति प्रायः दशांशं (10%) वैश्विकसमुद्रीयव्यापारस्य वहति। अस्माकं लक्ष्यं 2047 पर्यन्तं तस्य त्रिगुणवृद्धिः अस्ति। बन्दरक्षमतायाः चतुर्गुणवृद्ध्या, गभीरपोतबन्दराणां विकासेन च एषः उद्देशः सिद्धः भविष्यति।”
सः अपि अवदत्—“भारतस्य बन्दरक्षमता द्विगुणीकृता, सा 2,700 मेट्रिकटनं प्रति वर्षं जाता। मालवाहनम् अपि 1,640 MMT पर्यन्तं वर्धितम्, अन्तर्देशीयजलमार्गेषु च मालवाहनं गतदशवर्षेषु 6.9 MMT तः 145 MMT पर्यन्तं विकसितम्। भारतीयनाविकानां संख्या अपि 200 प्रतिशतं वर्धित्वा 3.2 लक्षपर्यन्तं जाता।”
केन्द्रीयपत्तनपोतपरिवहनजलमार्गराज्यमन्त्री शान्तनुः ठाकुरः स्थिरता, नवोन्मेषः, मानवसंसाधनविकासः इत्येषां प्रति भारतस्य ध्यानं सम्यक् प्रकाशयन् अवदत्—“भारतं एकं स्मार्ट्, टिकाऊं, वैश्विकप्रतिस्पर्धायुक्तं समुद्रीयपरिस्थितितन्त्रं निर्माति, यः उद्योगं सशक्तं करोति, पर्यावरणं रक्षति, भारतं च विश्वेन संयोजयति।”
भारतसमुद्रीयसप्ताहः 2025 इत्यस्य पूर्णसत्रे वैश्विकसमुद्रीयनेतारः प्रतिष्ठिताः अतिथयः च सहभागिनःआसन्।
---------------------
हिन्दुस्थान समाचार