भारतस्य समुद्री क्षेत्रे एक ट्रिलियन डॉलरमितो निवेशः संभावितः - नितिनगडकरी
मुंबई, 27 अक्टूबरमासः (हि.स.)।केंद्रीय-सड़क-परिवहन-राजमार्ग-मन्त्रिणा नितिन-गडकरिणा उक्तं यत् भारतस्य सामुद्रिक-क्षेत्रं प्रायः एक-ट्रिलियन-अमेरिकी-डॉलर्-मूल्यं, यत् भारतरूप्यकाणां चतुश्चत्वारिंशद् लक्ष-कोटि-समानं (अष्टचत्वारिंशद्-लक्ष-कोटि) भवति।
नितिन गडकरी


मुंबई, 27 अक्टूबरमासः (हि.स.)।केंद्रीय-सड़क-परिवहन-राजमार्ग-मन्त्रिणा नितिन-गडकरिणा उक्तं यत् भारतस्य सामुद्रिक-क्षेत्रं प्रायः एक-ट्रिलियन-अमेरिकी-डॉलर्-मूल्यं, यत् भारतरूप्यकाणां चतुश्चत्वारिंशद् लक्ष-कोटि-समानं (अष्टचत्वारिंशद्-लक्ष-कोटि) भवति। अस्मिन् क्षेत्रे निवेशस्य अपाराः सम्भावनाः सन्ति, याः निज-भागीदारी-सहाय्येन अधिकतरं विस्तारयितुं शक्याः।

गडकरी-महाशयः सोमवासरे मुम्बई-नगरे आयोजिते इण्डिया मेरीटाइम् वीक् २०२५ इति सम्मेलने सम्बोधित्य अवदत् यत्, सड़क-परिवहन-राजमार्ग-मन्त्रालयेन अद्यावत् टोल्-ऑपरेट्-ट्रान्स्फर् (TOT), इन्फ्रास्ट्रक्चर्-इन्वेस्टमेण्ट्-ट्रस्ट् तथा पब्लिक्-प्राइवेट्-पार्टनरशिप् (PPP) इत्यादि-मॉडेल्-प्रणालीनां माध्यमेन एकं दशांशं चत्वारिंशद्-लक्ष-कोटि-रूप्यकाणि (१.४ लक्षकोटिमिणानि) सञ्चितानि। एतेन निज-क्षेत्रस्य भागीदारी दशांशतः (१०%) त्रयस्त्रिंशत्-शतांशपर्यन्तं (३५%) अभवत्।

सः अवदत् यत् यदि एते वित्तीय-मॉडेलाः एव बन्दरगाह-नौकायान-लॉजिस्टिक्-क्षेत्रेषु अपि प्रयुज्येरन्, तर्हि परियोजनानां निष्पादनं शीघ्रं भविष्यति, गुणवत्ताऽपि उत्तमा भविष्यति, तथा सरकारस्य वित्तीय-भारः न्यूनः भविष्यति।

इण्डिया मेरीटाइम् वीक् २०२५ इत्यस्मिन् “नवोन्मेषी-तन्त्रेण पोत-वित्तपोषणम्” इति विषये भाषमाणः गडकरी-महाशयः अवदत् यत्, सामुद्रिकं क्षेत्रं भारतस्य अर्थव्यवस्थां दृढीकर्तुं शक्नोति, सहस्रशः जनानां कृते रोजगार-संभवनाः अपि सृज्येरन्।

सः केन्द्रिय-पोत-जलमार्ग-बन्दरगाह-मन्त्रिणं श्री-सर्बानन्द-सोनोवालं प्रशंस्य अवदत् यत्, तेन प्रधानमन्त्रिणः श्री-नरेन्द्र-मोदिनः सागरमाला २.० इत्यस्य दृष्टेः संवर्धने अत्यन्तं महत्वपूर्णं योगदानं दत्तम्।

सः अवदत् यत् सागरमाला २.० कार्यक्रमे अन्तर्गतं जहाज-निर्माणं, मरम्मणं पुनर्चक्रणं च प्रवर्ध्यते, बन्दरगाहानां क्षमता-दक्षता च सुदृढीक्रियते, तटीय-अर्थव्यवस्था नूतनं जीवनं लभते, सह अन्तर्देशीय-जलमार्गानां पुनर्जीवनार्थं अपि कार्यं प्रचलति।

---------------

हिन्दुस्थान समाचार