भाजपा कार्यकर्तृभ्यः पक्ष कार्यालयः एकं मंदिरमिव : अमित शाहः
महाराष्ट्र भाजपायाः नव प्रदेशीय कार्यालयस्य शिलान्यासः मुंबई, 27 अक्टूबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः सोमवासरे मुम्बईनगरे भारतीयजनतापक्षस्य नूतनप्रदेशकार्यालयस्य शिलान्यासं कृतवन्तः। तस्मिन् अवसर एव ते अवदन् यत् अस्य नूतनस्य कार्यालयस
फोटो: मुंबई में भाजपा के नए कार्यालय का शिलान्यास करते हुए केंद्रीय गृहमंत्री अमित शाह


महाराष्ट्र भाजपायाः नव प्रदेशीय कार्यालयस्य शिलान्यासः

मुंबई, 27 अक्टूबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः सोमवासरे मुम्बईनगरे भारतीयजनतापक्षस्य नूतनप्रदेशकार्यालयस्य शिलान्यासं कृतवन्तः। तस्मिन् अवसर एव ते अवदन् यत् अस्य नूतनस्य कार्यालयस्य माध्यमेन आगामिन्यः बह्वीः पीढयः सत्कार्यकर्तारः निर्मीयन्ते। ते अवदन् यत् प्रत्येकः भारतीयजनतापक्षकार्यकर्ता स्वपक्षकार्यालयं मन्दिरवत् मन्यते।

अमितशाहः पक्षकार्यकर्तॄन् सम्बोध्य एवमुक्तवन्तः यत् जनसङ्घस्य स्थापनेन आरभ्य एव संगठननिर्माणं, पक्षसिद्धान्तानां प्रचारप्रसारः, कार्यकर्तॄणां प्रशिक्षणं, जनहितार्थं च संघर्षः अस्मात् कार्यालयात् एव प्रवृत्तः अस्ति। शाहः उक्तवन्तः— अन्येषां सर्वेषां पक्षानां कृते कार्यालयः केवलं भवनमात्रम् अस्ति, किन्तु भाजपा–कार्यकर्तॄणां कृते कार्यालयः मन्दिरवत् पूज्यः अस्ति। भाजपा एव एकमेव पक्षः अस्ति, यत्र बूथाध्यक्षः अपि पक्षाध्यक्षः भवितुं शक्नोति। प्रधानमन्त्रिणः, मुख्यमन्त्रिणः च कार्यकर्तॄणां मध्ये एव उद्भवन्ति।ते अवदन् यत् भाजपा–शासनं लोकतान्त्रिकमूल्येषु आधारितम् अस्ति। सेवा–त्याग–समर्पण–देशभक्तेः आधारभूतेन कार्येण साधारणः अपि कार्यकर्ता सर्वोच्चपदं प्राप्तुं शक्नोति। प्रधानमन्त्री नरेन्द्रमोदी तस्य श्रेष्ठतमः उदाहरणं सन्ति इति अपि ते निर्दिष्टवन्तः। ते अवदन् यत् सर्वेषु शासकीयजिलेषु भाजपा–मुख्यालयनिर्माणकार्यं २०२६ तमे वर्षस्य डिसेम्बरमासपर्यन्तं सम्पन्नं भविष्यति। प्रायः ६६० संगठनजिलेषु ३७५ जिलेषु कार्यालयाः सन्ति, नवतिस्थानेषु निर्माणकार्यं प्रवृत्तम् अस्ति।शाहः एवम् उक्तवन्तः यत् प्रधानमन्त्रिणः मोदीनेतृत्वे देशः अद्य सर्वेषु क्षेत्रेषु अग्रणी भवति। गरीबकल्याण–निःशुल्कखाद्यवितरण–निःशुल्कचिकित्सासेवाः इत्यादिभिः योजनाभिः दरिद्रजनानां जीवनं सुलभं जातम् अस्ति।

---------------

हिन्दुस्थान समाचार