भास्करमहोत्सवे लोकशासनस्य शक्तिं नागरिककर्तव्यपालनं च संकल्प्यते
अररिया, 28 अक्टूबरमासः (हि.स.)। लोकआस्थायाः महापर्वणि छठ अवसरे, जनपदप्रशासनस्य बिहारकला–संस्कृति–युवा–विभागस्य च पक्षतः त्रिशूलियाघाटे नहरतटे च सोमवासरस्य सायंकाले भास्करमहोत्सव इत्याख्यः सांस्कृतिकः कार्यक्रमः आयोजितः। यस्मिन् प्रसिद्धाः लोकगाय
अररिया फोटो:भास्करहित्सव के कलाकारों को सम्मान


अररिया, 28 अक्टूबरमासः (हि.स.)। लोकआस्थायाः महापर्वणि छठ अवसरे, जनपदप्रशासनस्य बिहारकला–संस्कृति–युवा–विभागस्य च पक्षतः त्रिशूलियाघाटे नहरतटे च सोमवासरस्य सायंकाले भास्करमहोत्सव इत्याख्यः सांस्कृतिकः कार्यक्रमः आयोजितः।

यस्मिन् प्रसिद्धाः लोकगायकाः अमरआनन्दः, प्रियाराज् च मणिभूषणभारद्वाजः, बबलूकुमारमण्डलः, भूपालकुमारश्च स्वस्य मोहकप्रस्तुतिभिः दर्शकान् मन्त्रमुग्धान् अकुर्वन्।

कार्यक्रमस्य उद्देश्यः आसीत् — लोकसंस्कृतेः संरक्षणं, तथा आगामी बिहारविधानसभानिर्वाचनस्य सन्दर्भे मतदाता–जागरूकताया जनजनं प्रति प्रसारणम्।

त्रिशूलियाघाटे यत्र मणिभूषणभारद्वाजः, बबलूकुमारमण्डलः, भूपालकुमारश्च स्वप्रस्तुतिभिः जनमनः हरन्ति स्म, तत्र नहरछठघाटे अमरआनन्दः प्रियाराज् च स्वसुरीलस्वरेण छठस्य पारम्परिकगीतानां मतदाता–जागरूकता–गीतानां च सुन्दरप्रस्तुत्या भक्तान् नृत्याय हर्षाय च प्रवर्तयामासताम्।

अस्मिन् अवसरे जिलानिर्वाचनाधिकारी–सह–जिलाधिकारी अनिलकुमारः, आरक्षकअधीक्षकः अञ्जनीकुमारश्च छठपर्वणः शुभाशंसाः दत्वा अवोचताम् — आगामी ११ नवम्बरदिनाङ्के भविष्यति विधानसभानिर्वाचनस्य द्वितीयचरणे सर्वे जिलामतदाता: पूर्णदायित्वेन स्वमतदानं कुर्वन्तु इति।

कार्यक्रमे विशालसङ्ख्यायां स्थानीयनागरिकाः, सांस्कृतिकप्रेमिणः, प्रशासनिकाधिकारीणश्च उपस्थिताः। सर्वे अपि लोकशासनस्य महापर्वणि स्वस्य मताधिकारस्य प्रयोगे संकल्पं कृतवन्तः।

तत्र अनुमण्डलाधिकारिणः रविप्रकाशः, अनुमण्डल–आरक्षकाधिकारिणः सुशीलकुमारः, जिलाकला–संस्कृति–अधिकारिणः सान्यालकुमारः, अन्ये च विभागीयवरिष्ठाधिकारीणः सन्निहिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता