भारतीयजनतापक्षस्य अध्यक्षः दिलीपसैकिया इत्यनेन संयुक्तराष्ट्रमहासभायाः सभायां सहभागः कृतः
गुवाहाटी, 28 अक्टूबरमासः (हि.स.)। असमप्रदेशस्य भारतीयजनतापक्षाध्यक्षः तथा दरंग-उदालगुड़ीलोकसभाक्षेत्रस्य सांसदः दिलीपसैकियाः न्यूयोर्कस्थिते संयुक्तराष्ट्रे भारतस्य स्थायिमिशनकार्यालये आयोजिते संयुक्तराष्ट्रमहासभायां (यूएनजीए) भारतीयप्रतिनिधिमण्डल
Image shared by Assam BJP president Dilip Saikia.


गुवाहाटी, 28 अक्टूबरमासः (हि.स.)। असमप्रदेशस्य भारतीयजनतापक्षाध्यक्षः तथा दरंग-उदालगुड़ीलोकसभाक्षेत्रस्य सांसदः दिलीपसैकियाः न्यूयोर्कस्थिते संयुक्तराष्ट्रे भारतस्य स्थायिमिशनकार्यालये आयोजिते संयुक्तराष्ट्रमहासभायां (यूएनजीए) भारतीयप्रतिनिधिमण्डलस्य सहभागीभूतः। सैकियाः एकस्मिन् संदेशे उक्तवान् यत् भारतः संयुक्तराष्ट्रे स्वस्थानं दृढीकरणे सफलः अभवत्। सः अपि अवदत् यत् विश्वमैत्र्य, शान्ति च आतंकवादनिरोधे विषयेषु भारतस्य स्थिति जगतः प्रमुखदेशानां समर्थनं प्राप्तवती।

हिन्दुस्थान समाचार / अंशु गुप्ता