मुख्यमन्त्रिमोहन माझी इत्यनेन अपि सहधर्मचारिण्या सह षष्ठीपूजा आचरिता
भुवनेश्वरः, 28 अक्टूबरमासः (हि.स.)। नगरस्य मञ्चेश्वरस्थिते नवनिर्मिते बालीयात्रा-मैदाने आयोजिते षष्ठीपूजा-कार्यक्रमे मुख्यमन्त्री मोहनचरणमाझी अपि सहधर्मचारिण्या सह पूजाम् आचरन्, उदितसूर्याय अर्घ्यम् अर्पितवन्तौ च। अस्मिन् अवसरे तौ उक्तवन्तौ यत् ओडि
मुख्यमन्त्रिमोहन माझी इत्यनेन अपि सहधर्मचारिण्या सह षष्ठीपूजा आचरिता


भुवनेश्वरः, 28 अक्टूबरमासः (हि.स.)। नगरस्य मञ्चेश्वरस्थिते नवनिर्मिते बालीयात्रा-मैदाने आयोजिते षष्ठीपूजा-कार्यक्रमे मुख्यमन्त्री मोहनचरणमाझी अपि सहधर्मचारिण्या सह पूजाम् आचरन्, उदितसूर्याय अर्घ्यम् अर्पितवन्तौ च। अस्मिन् अवसरे तौ उक्तवन्तौ यत् ओडिशा-सरकार “भ्रातृत्वं, सौहार्दं च सांस्कृतिकैक्यम्” इत्यस्य परम्परां सुदृढीकर्तुं प्रतिबद्धा अस्ति, ओडिशायां च षष्ठीपूजा एषां सांस्कृतिकैक्यस्य प्रतीकः अस्ति।

अस्मिन् अवसरे मुख्यमन्त्रिणा सह धर्मपत्नी डॉ॰ प्रियङ्का मार्डी अपि उपस्थितासीत्। उभौ धार्मिकविधिविधानानां पालनं कृत्वा सूर्यदेवाय अर्घ्यम् अर्पितवन्तौ, राज्यवासिनां च सुखसमृद्ध्यै प्रार्थनाम् अकुर्वताम्। मुख्यमन्त्री अवदत् — षष्ठीपर्व अस्मान् शिक्षयति यत् जीवनस्य सत्यं आधारः अस्ति — प्रकृतिः, जलम्, वायुः, च सूर्यस्य ऊर्जा। अस्य पर्वस्य माध्यमेन वयं प्रकृतेः पर्यावरणस्य च प्रति कृतज्ञतां व्यक्तयामः, तस्माच् प्रेरणाम् अपि लभामहे।

मुख्यमन्त्री उक्तवान् यत् षष्ठीपर्वस्य महत्त्वमा विशेषता एषा एव यत् न तत्र आडम्बरः, न च दम्भः, केवलं निष्ठा, आस्था, आत्मिका श्रद्धा च। एतत् पर्व स्वच्छतायाः अनुशासनस्य च अद्भुतं उदाहरणम् अस्ति, एष एव तस्य आत्मा। तेन उक्तम् यत् परम्परया षष्ठीपूजा बिहार-झारखण्ड-उत्तरप्रदेशादिषु उत्तरभारतीयेषु प्रदेशेषु आचर्यते, परं अधुना ओडिशायामपि एषः पर्व महानन्देन श्रद्धया च आचर्यते — एतत् हर्षस्य विषयः अस्ति।

मुख्यमन्त्री उक्तवान् यत् ओडिशाराज्यं नवविकासमार्गे अग्रे गच्छतु, अस्माकं कृषकाः, श्रमिकाः, युवानः, मातृशक्तिश्च सशक्ताः भवन्तु, प्रत्येकं गृहे च हर्षदीप्तिः प्रसारिताम् — एषा एव अस्माकं कामना। कार्यक्रमे विश्वास-न्यासस्य अध्यक्षः राजकुमारः, उपाध्यक्षः अजयबहादुरसिंहः, महासचिवः अशोकभगतः, बिहारविकासपरिषदः संयोजकः आनन्दमोहनः इत्यादयः अनेकाः गण्यमानाः जनाः अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता