Enter your Email Address to subscribe to our newsletters


जशपुरम्/रायपुरम्, 28 अक्टूबरमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमंत्री विष्णुदेवसायः मङ्गलवासरे प्रभाते स्वपत्न्या कौशल्यया सहितं कुनकुरीप्रदेशस्थे दुलदुलाछठघाटे आगत्य सूर्याय अर्घ्यं समर्प्य प्रदेशस्य सुखसमृद्ध्यै, जनसुखाय च प्रार्थनां कृतवान्। तस्मिन् अवसरे मुख्यमन्त्रिणा सायेन पारम्परिकविधिना पूजाऽर्चना सम्पन्ना। सः सूपं शिरसि धारयित्वा श्रद्धया सहोद्यतसूर्यं प्रति अर्घ्यं दत्तवान्।
मुख्यमंत्री सायः प्रदेशवासिभ्यः छठपूजायाः हृदयङ्गमां शुभकामना्ः वर्धापनानि च अयच्छत्। तेन उक्तं यत् एषः अत्यन्तं सौभाग्यसंपन्नः अवसरः यतः मम छठपर्वणि सम्मिलितु्म् अवसरः प्राप्तः। मुख्यमंत्री अवदत्—जनतायाः विश्वासेन स्नेहेन च एव तस्मै जनसेवायाः अवसरः प्राप्तः, सः च क्षेत्रस्य विकासाय जनअपेक्षापूर्तये च निरन्तरं प्रयत्नशीलः अस्ति।
मुख्यमंत्री सायः दुलदुलाक्षेत्रवासिनां मागं प्रति छठघाटस्य सौन्दर्यीकरणस्य घोषणां कृतवान्। तेन उक्तं यत् आगामिपर्वपर्यन्तं दुलदुलाछठघाटस्य सौन्दर्यीकरणकार्यं पूर्णं भविष्यति। तेन एव उक्तं यत् कुनकुरीछठघाटस्य सौन्दर्यीकरणं प्रायेण पञ्चकोट्याः सप्तदशलक्षरूप्यकपर्यन्तखर्चेन कृतं, यत्र अस्मिन् वर्षे व्रतीनार्यः पूर्णश्रद्धया पूजाऽर्चनां कुर्वन्ति। अस्मिन् अवसरे जनपदपरिषदुपाध्यक्षः शौर्यप्रतापसिंहजूदेवः, जनपदपरिषद्दुलदुलाध्यक्षः रामकुमारसिंहः, महानिरीक्षकः दीपककुमारझा, जनपदाधिकारी रोहितव्यासः, आरक्षकाध्यक्षकः शशिमोहनसिंहः च उपस्थिताः आसन्। छठव्रतपालकाः महिलाः, जनप्रतिनिधयः, ग्रामजनाश्च अपि बृहद्भिः संख्याभिः तत्र उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता