Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।मंगलवारं दिने केन्द्रसरकारेण अष्टमं केन्द्रीयवेतनायोगं गठनाय अनुमोदनं दत्तम्। एषः आयोगः स्वगठनतिथेः अष्टादशमासानां मध्ये स्वसिफारिशः प्रदास्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अध्यक्षतायां सम्पन्ने केन्द्रीयमन्त्रिमण्डलस्य सभायां एतत्सम्बन्धिनी प्रस्तावना अनुमोदिता। सूचना–प्रसारणमन्त्री अश्विनीवैष्णवः नूतनमाध्यमकेन्द्रे पत्रकारसम्मेलनं कृत्वा मन्त्रिमण्डलनिर्णयस्य विवरणं प्रदत्तवान्।
वैष्णवेन उक्तं यत् अष्टमः वेतनायोगः अस्थायिस्वरूपः भविष्यति। आयोगे एकः अध्यक्षः, एकः अंशकालिकसदस्यः, एकः सदस्य–सचिवः च भविष्यन्ति। सः आयोगः स्वगठनतिथेः अष्टादशमासानां मध्ये स्वसिफारिशः प्रदास्यति।
सरकारा पूर्वं जनवरीमासे केन्द्रीयकर्मचारिणां वेतनस्य अन्यलाभानां च परीक्षां सिफारिशं च कर्तुं अष्टमं वेतनायोगं स्थापयितुम् उद्घोषितवती। वेतनायोगाः समयसमये केन्द्रसरकारकर्मचारिणां पारिश्रमिकरचनां, निवृत्तिभृत्यलाभानां, सेवाशर्तीनां च विषयेषु विचारं कृत्वा आवश्यकपरिवर्तनानां सिफारिशः कुर्वन्ति। सामान्यतः वेतनायोगानां सिफारिशः दशवर्षपर्यन्तं कालान्तरं प्रति प्रवर्त्यते। अतः अष्टमवेतनायोगस्य सिफारिशः आगामिवर्षे अपेक्ष्यते।
------------
हिन्दुस्थान समाचार