Enter your Email Address to subscribe to our newsletters

- इंदौरे गूंजितो जयघोषः, उत्पन्ना श्रद्धास्थयोः अविरलधारा
इंदौरम्, 28 अक्टूबरमासः (हि.स.)।लोकआस्थायाः सूर्योपासने च महापर्वणः छठपूजा नामकं चतुर्दिनात्मकं अनुष्ठानं मङ्गलवासरे प्रातःकाले उदयमानभास्कराय अर्घ्यप्रदानपूर्वकं श्रद्धाभक्त्याऽनन्दभावेन च सम्पन्नम्। मध्यप्रदेशराज्यस्य इन्दौरनगरस्थे पूर्वाञ्चलबिहारदेशीयैः सहस्रशः भक्तजनैः भगवानं भास्करं प्रति आराधना कृता — परिवारस्य, समाजस्य, प्रदेशस्य च राष्ट्रस्य च सुखसमृद्ध्यै, आरोग्याय, शान्तये च प्रार्थिता।
सोमवासरे सायंकालेऽस्ताचलगच्छन्तं सूर्यं प्रति प्रथममर्घ्यदानं कृतं, ततः अर्धरात्र्यां प्रभृति व्रतीनां महिलाः श्रद्धालवः च घाटान् प्रति गमनं प्रारब्धवन्तः। मङ्गलवासरे प्रातःचतुर्भ्यः वादनं यावत् सर्वे प्रमुखघाटाः भक्तजनैः परिपूर्णा अभवन्। यत्र विद्युतालङ्कारैः, दीपशोभया, छठमातृभजनैः, लोकगीतैश्च सम्पूर्णं वातावरणं भक्तिमयं जातम्। कतिपये स्थलेषु भक्तजनाः फुल्झरीदीपैः च घाटान् प्रकाशयामासुः, येन सर्वं प्रदेशं दिव्यतेजसा आवृतम् अभवत्।
यथा यथा सूर्योदयकालः समीपं प्राप्तः, तथा व्रतीनारीणां पुरुषाणां च समुदायः जलस्थाने स्थित्वा अञ्जलिं कृत्वा सूर्यदेवं प्रति परिवारस्य कल्याणाय सुखशान्तये च प्रार्थना कृतवन्तः। सूर्योदयसमये विजयनगर, योजना-सङ्ख्या ७८, तुलसीनगर, समरपार्क-निपानिया, वेदमन्दिर, सुखलिया, श्यामनगर, ड्रीमसिटी-देवासनाक, शङ्खेश्वरसिटी, बाणगङ्गाकुण्ड, वक्रतुण्डनगर, कालानीनगर, सिलिकॉनसिटी, पिपलियाहनातालाब, अन्नपूर्णारोडतालाब, सूर्यदेवालय (कैटरोड) इत्यादिषु मुख्यघाटेषु भक्ताः “आदिदेव नमस्तुभ्यं प्रसीद मम भास्करः” इति “ॐ सूर्याय नमः” इत्यादिमन्त्रैः सह अर्घ्यं दत्तवन्तः।
पूर्वोत्तरसंस्कृतिकसंस्थानस्य प्रादेशिकाध्यक्षः ठाकुरजगदीशसिंहः महासचिवश्च के.के. झा इत्येताभ्यां उक्तं यत्, अस्मिन् अवसरं नगरस्य जनप्रतिनिधयः, राजनीतिज्ञाः, प्रशासकीयाधिकारीणश्च श्रद्धापूर्वकं सम्मिलिताः, भगवानं भास्करं प्रति अर्घ्यं दत्तवन्तः। अर्घ्यदानानन्तरं श्रद्धालवः ठेक्वा, कदलीफलानि, सेबफलानि चान्यफलानि च प्रसादरूपेण वितरयामासुः। ततः व्रतीनारीणः पीपलवृक्षस्य पूजनं कृत्वा षट्त्रिंशद्घण्टानां कठोरनिर्जलव्रतस्य पारणं कृतवन्त्यः, नूनयुक्तं भोजनं ग्रह्य उपवासं समापितवत्यः।
एषः छठमहापर्वस्य भव्यसमापनः केवलं इन्दौरनगरं पूर्वाञ्चलसंस्कृतेः वर्णैः नानाकारेण शोभायामास, अपि तु आस्था, अनुशासनं, सामूहिकता च इत्येषां अद्भुतमुदाहरणं दत्तवान्। घाटेषु गुञ्जमानाः लोकगीताः, जयघोषाश्च सम्पूर्णं नगरं भक्तिभावेन ऊर्जया च पूरयामासुः।
तुलसीनगरस्थे स्थायीछठघाटनिर्माणस्य योजनातुलसीनगरनिवासीसंघेन पूर्वोत्तरसमाजस्य सहयोगेन च मङ्गलवासरे प्रातःकाले श्रद्धापूर्वकं उदयमानसूर्याय अर्घ्यं दत्तम्। बहवः मातरः भगिन्यश्च व्रतं कृत्वा उपस्थिताः, परिवारस्य समाजस्य राष्ट्रस्य च समृद्ध्यर्थं छठमातां प्रति प्रार्थना कृतवत्यः। अस्मिन् अवसरं संघेन उद्घोषितं यत्, आगामिवर्षे पूजापूर्वं मन्दिरपरिसरे जनसहयोगेन २०×५ फुटप्रमाणं स्थायीछठघाटं निर्मास्यते, येन श्रद्धालवः अधिकसुविधया, सुरक्षितया च पर्वं आचरितुं शक्नुवन्ति।
कार्यक्रमे संघाध्यक्षः राजेशतोमरः, उपाध्यक्षः भगवान्झा, आर.के.पटेलः, सुलभजैनः, प्रमोदवाजपेयिः, शारदासिंहः चान्ये बहवः मान्यजनाः उपस्थिताः।
हिन्दुस्थान समाचार