झारखंडे उदीयमान सूर्याय अर्घ्यदानेन सहैव छठ महापर्व संपन्नम्
रांची, 28 अक्टूबरमासः (हि.स.)। झारखण्डराजधानीस्थायां राँचीपुर्यां सह सम्पूर्णराज्ये च अद्य मङ्गलवारे छठव्रतीनां जनाः उदितसूर्याय अर्घ्यं दत्तवन्तः। एतेन च चतुर्दिनात्मकः छठमहापर्वः सम्पन्नः जातः। छठव्रतिन्यः जलमग्नाः सन्त्यः उदितसूर्याय अर्घ्यं दत
छठ घाट की तस्वीर


रांची, 28 अक्टूबरमासः (हि.स.)।

झारखण्डराजधानीस्थायां राँचीपुर्यां सह सम्पूर्णराज्ये च अद्य मङ्गलवारे छठव्रतीनां जनाः उदितसूर्याय अर्घ्यं दत्तवन्तः। एतेन च चतुर्दिनात्मकः छठमहापर्वः सम्पन्नः जातः। छठव्रतिन्यः जलमग्नाः सन्त्यः उदितसूर्याय अर्घ्यं दत्त्वा स्वपरिवारस्य सुखसमृद्धिं, सन्तानस्य दीर्घायुष्यम्, जीवनस्य च ऊर्जां प्रार्थितवन्त्यः। राँचीपुर्यां सर्वेषु छठघाटेषु जनानां महान् समुदायः दृश्यते स्म। सह तेन छठव्रतीनां षट्त्रिंशद्‌घण्टकपर्यन्तं निराहारनिर्जलव्रतमपि समाप्तं जातम्।

---------------

हिन्दुस्थान समाचार