Enter your Email Address to subscribe to our newsletters

कोलकाता, 28 अक्टूबरमासः (हि. स.)। लोकआस्थायाः चतुर्दिनात्मकस्य महापर्वणः छठ इत्यस्य समापनं मङ्गलवासरे प्रातःकाले उदिते सूर्ये अर्घ्यप्रदानेन श्रद्धा–भक्ति–उल्लासमयेन वातावरणेन सह सम्पन्नम्। कोलकातानगरं सहितं सम्पूर्णे पश्चिमबङ्गराज्ये गङ्गाघाटेषु सहस्रसहस्रश्रद्धालवः नार्यः पुरुषाश्च पारम्परिकैः विधिविधानैः नद्यां, सरःसु, जलाशयेषु च स्थित्वा सूर्यदेवाय अर्घ्यं समर्पितवन्तः।
प्रातःकाले प्रथमकिरणेन सह श्रद्धालवः छठीमायां सूर्यदेवं च आराधितवन्तः। विविधवर्णवसनैः भूषितानां नारीणां नासात् आरभ्य मांगपर्यन्तं सिन्धूररेखाः, हस्तयोः सुपे संस्थापितानि फलानि—कदली, सेवफलम्, नारिकेलम्, नाशपाती, नारङ्गी च—आस्थायाः विश्वासस्य च अद्भुतं दृश्यं निर्मितवन्ति। घाटेषु “जय छठीमायां”, “सूर्यदेवकी जय” इत्यादिभिः घोषैः सम्पूर्णं वातावरणं भक्तिमयं जातम्।
राज्यव्यापिनि अवसरसन्धौ सुरक्षा–व्यवस्था दृढतया कृताऽभवत्। कोलकातापुलिसेन घाटेभ्यः आरभ्य मुख्यमार्गपर्यन्तं अतिरिक्तरक्षकबलं नियोजितम्। नगरे निगमेन अपि घाटानां स्वच्छता, प्रकाशव्यवस्था, पानजल–वितरणं, घोषणासाधनानि च विशेषरूपेण व्यवस्थितानि। नदीमध्ये नदीनिरीक्षण–दलेभ्यः सततपरिभ्रमणेन सुरक्षा–व्यवस्था सुदृढा अभवत्।
मुख्यमन्त्री ममताबनर्जी सोमवासरस्य सायं समये अस्तसूर्याय अर्घ्यप्रदाने अवसरं कोलकातायाः गङ्गाघाटम् आगत्य श्रद्धालुभिः सह संवादं कृतवती राज्यवासिनं च शुभाशंसाः दत्तवती। सा च शान्तिपूर्ण–सौहार्दपूर्णेन प्रकारेण पर्वणः आयोजनं दृष्ट्वा प्रशासनस्य प्रशंसा अपि कृतवती।
एते अवसरसन्धौ महानगरे हावडायां, हुग्ली–जनपदे, उत्तर–दक्षिण–चतुर्विंशतिपरगणेषु च सर्वेषु घाटेषु श्रद्धालूनां अपारसङ्गमः अभवत्। अनेकस्थलेषु स्थानीयक्लब्स् तथा सामाजिकसंघैः व्रतीनां कृते विशेषसुविधाः उपकल्पिताः, यतः कोऽपि असुविधां न प्राप्नुयात्।
उल्लेखनीयं यत् छठपर्वः सूर्योपासनायाः लोकमहापर्व इति प्रसिद्धम् कार्तिकशुक्लपक्षस्य षष्ठीतिथौ आचर्यते। इदं पर्वः मूलतः बिहार–झारखण्ड–पूर्वउत्तरप्रदेश–नेपालस्य तराई–प्रदेशेषु मन्यते, परं सम्प्रति देश–विदेशयोः अपि श्रद्धया भक्त्या च आचर्यते। छठव्रतं कुर्वन्त्यः नार्यः षट्–त्रिंशत्–घण्टातिक्रम्य निर्जलव्रतमाचरन्त्यः सूर्यदेव–उषादेव्यौ च पूजयन्ति। मूर्तिपूजारहितं च एतत् पर्व सहजतासंयम–आस्थायाः प्रतीकः मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता