उदीयमानसूर्याय अर्घ्यं समर्प्य लोकआस्थायाः महापर्वः छठसमाप्तम्, जयकारैः तटाः गुंजिताः
मीरजापुरम्, 28 अक्टूबरमासः (हि.स.)। लोकआस्था श्रद्धापरम्परायाः महापर्वः छठ मङ्गलवासरे कार्तिकशुक्लषष्ठीतिथौ चरमोत्कर्षे अभवत्। जनपदस्य पक्काघाट, दाऊजीघाट, नारघाट, फतहां च संकठाघाटसहितं सर्वेषु गङ्गातटेषु सहस्राणि व्रत्याः महिलाः श्रद्धालवः च उदितस
उदीयमान सूर्य को अर्घ्य देती ब्रती महिलाएं।


मीरजापुरम्, 28 अक्टूबरमासः (हि.स.)। लोकआस्था श्रद्धापरम्परायाः महापर्वः छठ मङ्गलवासरे कार्तिकशुक्लषष्ठीतिथौ चरमोत्कर्षे अभवत्। जनपदस्य पक्काघाट, दाऊजीघाट, नारघाट, फतहां च संकठाघाटसहितं सर्वेषु गङ्गातटेषु सहस्राणि व्रत्याः महिलाः श्रद्धालवः च उदितसूर्याय अर्घ्यं दत्त्वा आगताः। सूर्यनारायणस्य उदये एव घाटेषु “जयछठीमइया, जयसूर्यनारायणभगवान्, हर-हरमहादेव” इत्यादीनां जयकारैः सम्पूर्णं वातावरणं गुंजितम्। व्रत्याः महिलाः गङ्गाजले स्थित्वा कलशं, नारिकेलं, फलं ठेक्वा च अर्घ्यं समर्पयन्ति स्म। दीपप्रदीपस्य ज्वाला च छठगीतानां गुंजनं च वातावरणं पूर्णतया भक्तिमयम् अकुर्वत्। ढोल-नगाडा-डीजेः तालकेन पारम्परिकछठगीता: “केतकीकेफूल, भुइयाफूलेना…” इत्यादीनि गुंजमानानि आसन्। महिलाः बालकाः च नृत्य-गीतपूर्वकं मां गङ्गां नमन्य आराधने लीनाः दृष्टाः। कतिपयाः व्रतिन्यः मनोतीर्तं पूर्त्यर्थं दण्डवत् यात्रां कृत्वा घाटं प्राप्ताः। तेषां मुखेषु श्रद्धा-संतोषयोः अद्भुतः सङ्गमः प्रकटितः। सूर्यदेवस्य कृपया संतानप्राप्ता माताः स्वपुत्रान् कोदण्डे वहन् अर्घ्यं दातुम् आगत्य, मातृत्वस्य तेजः श्रद्धया संयुक्तः घाटे अनूठं दृश्यं प्रस्तुतवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता